SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७२. श्रीपार्श्वनाथचरितेअभूत् सार्थाऽभिधा तस्य दयिता तिलकावली ।। ८ ॥ भुञ्जानस्य तया साधं तस्य वैषयिकं सुखम् । कियानपि ययौ कालो विद्युद्गतिमहीपतेः ॥९॥ इतश्च सोऽष्टमात् कल्पाद् गजजीवः परिच्युतः । देव्याः श्रीतिलकावल्या उदरे समवातरत् ।। १० ॥ सा काले सुषुवे सूनुमनूननरलक्षणम् । पित्रा च किरणवेग इति नामाऽस्य निर्ममे ॥ ११ ॥ स्त्रीभिाल्यमानः सन् व्यवर्धिष्ट क्रमेण सः। विद्याकल्पनिधिश्चाभूदारुरोह च यौवनम् ॥ १२ ॥ सर्वलक्षणसंपूर्ण दधानोऽप्यङ्गमुज्ज्वलम् । यत्रासौ हरिणाक्षीभिरनङ्ग इव दृश्यते ॥ १३ ॥ विद्युद्गतिरथो एनं महासामन्तवंशजाम् । पद्मावतीं राजपुत्रीं महा पर्यणाययत् ।। १४ ॥ परत्रहितसद्धर्मक्रियावसरमात्मनः । ज्ञात्वा दत्त्वा च पुत्रस्य राज्यं राजेत्यभाषत ॥ १५ ॥ भोः ! प्रधानाः ! यतः स्वामी चक्षुश्च भवतामयम् । अर्पितः किरणवेगो द्रष्टव्योऽहमिवानिशम् ॥ १६ ॥ खप्नेऽप्याज्ञा न लवयाऽस्य प्रतिकूलकृतोऽपि हि । विकारः कुलवध्वेव दर्शनीयो न जातुचित् ।। १७ ॥ त्वयाप्येष महाराज ! राजलोको मयेव भोः । अनुवर्योऽपराधेऽपि भाव्यं बाह्यरुषैव हि ॥ १८ ॥ हृदयान्तः पुनः पितृशिशुन्यायेन सुन्दरम् । चिन्तनीयं, न मर्यादा लङ्गनीया समुद्रवत् ॥ १९ ॥ कार्यो ज्ञानवयोवृद्धविदग्धैः सह सङ्गमः । द्यूतादिव्यसनं वार्य कृत्यः षट्शत्रुनिग्रहः ॥ २० ॥ आराम इव लोकोऽयं पालनीयः प्रयत्नतः। . येनामोषि यशःपुष्पं सौख्यपुण्यमयं फलम् ॥ २१ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy