________________
द्वितीयः सर्गः।
तथागुणेष्वनादरं वत्स ! भूरिश्रीरपि मा कृथाः। संपूर्णोऽपि घटः कूपे गुणच्छेदात् पतत्यधः ॥ २२ ॥ खाम्यमात्यश्च राष्ट्रं च दुर्गः कोशो बलं सुहृत् । राज्यं सप्ताङ्गमप्येतत् सद्गुणैरेव धार्यते ॥ २३ ॥ मा जात ! संपदामग्रमारूढोऽस्मीति विश्वसीः । दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ॥ २४ ॥ किश्वकुलजस्यापि ते वत्स ! भूयो भूयः प्रचक्ष्यते । येनेदं यौवनं नव्यं दावपावकसंनिभम् ॥ २५ ॥ दग्ध्वा गुणवनं तच विस्रसातः प्रशाम्यति । धन्यास्ते तु शमाऽम्भोभिः प्रागेव शमयन्ति ये ॥ २६ ॥ निःस्वानामपि तारुण्यं विकाराय भवत्यलम् । विद्यारूपबलैश्वर्योद्धतानां किं नु कथ्यते ? ॥२७॥ यौवनस्यावतारे हि बाल्येनैव सह व्रजेत् । स्नेहो गुरुजने, वाञ्छा वक्षसा सह वर्धते ॥ २८ ॥ वयसेव सहारोहत्यहो ! प्रीतिर्नवा नवा । बलेनेव सह स्फीति मदो याति दिने दिने ॥ २९ ॥ दोयेन सह स्थूलभावमापद्यते मतिः । मध्येनेव सहात्यन्तकृशतां भजति श्रुतम् ॥ ३०॥ हृदयं च सहोरुभ्यां दुर्नयैरुपचीयते । मोहो मालिन्यहेतुश्चोज्जृम्भते श्मश्रुणा सह ॥ ३१ ॥ आकारमनुवर्तन्ते विकारा अपि पुत्रक !। तदिदं यौवनारण्यं कोऽपि क्षेमेण लङ्घयेत् ॥ ३२ ॥ नरकान्तं तदा राज्यं यदि राजा न धार्मिकः । धार्मिके तु परं तस्मिन् सौख्यमत्र परत्र च ॥ ३३ ॥ १ सुकुलस्येत्यपि। २ वार्धक्यात् ।
-
-