SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीपार्श्वनाथचरिते अनुशिष्टिं विधायैवं क्षमयित्वाऽखिलं जनम् । श्रुतसागरगुर्वन्तेऽग्रहीन विद्युद्गतिव्रतम् ॥ ३४ ॥ राजाथ किरणवेगः पैत्रिकी राज्यसम्पदम् । अगृध्नुः पालयामास नीतिशास्त्रानुसारतः ॥ ३५॥ अनासक्तमनाः सौख्यं सिषेवे विषयोद्भवम् । इत्यर्थकामौ तस्याऽऽस्तां धर्मायैव महात्मनः ॥ ३६॥ पद्मावतीकुक्षिभवस्तस्यापि तनयोऽभवत् । नामतः किरणतेजास्तेजसामेकमास्पदम् ॥ ३७ ।। क्रमाच्च कवचहरः सिद्धविद्यश्च सोऽभवत् । मूर्तिः किरणवेगस्य द्वितीयेव महामनाः ॥ ३८ ॥ अन्यदा बहिरुद्याने तत्रैत्य समवासरत् । मुनिः सुरगुरुनाम नाम्नैव ध्वस्तकल्मषः ॥ ३९ ॥ गत्वा किरणवेगस्तं नमश्चक्रेऽतिभक्तितः । पुरीलोकश्च सर्वोऽपि मुनि वन्दितुमागमत् ॥ ४० ॥ ततो राज्ञो जनस्याऽपि यथास्थानं निषेदुषः । अनुग्रहाय विदधे स साधुर्धर्मदेशनाम् ॥ ४१ ॥ आसाद्यते भवाऽम्भोधौ भ्रमद्भिर्यत् कथश्चन । मूद्वैस्तत् प्राप्य मानुष्यं हा ! रत्नमिव हार्यते ॥ ४२ ॥ नराणां कीटकानां च दैवदत्ताऽशनायुषाम् । आर्तध्यानकृतोऽभेदो यदि धर्म न कुर्वते ॥ ४३ ॥ नरके पातनायैव विषयाः सेविताश्चिरम् । सेव्यो मोक्षफलस्तस्माद् धर्मः सर्वज्ञभाषितः ॥ ४४ ॥ स च द्वेधा भवेदत्र गृहस्थ-यतिभेदतः । अणुव्रतानि मुख्यानि गृहिणां पश्च तद् यथा ॥ ४५ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्याऽपरिग्रहौ । धर्मः खाख्यायि सर्वज्ञैरेष पञ्चवतात्मकः ॥ ४६॥ .
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy