________________
द्वितीयः सर्गः।
तत्रअहिंसा नाम यल्लोके खखभावप्रवर्तिनाम् । जीवितव्यैकसाराणां प्राणिनां प्राणरक्षणम् ॥ ४७ ॥ जीवितव्यं ददानेन दत्तं त्रिभुवनं ततः। हरता तत्तु सर्वखं हृतं शून्यीकृतं जगत् ॥ ४८ ॥ ग्रन्थातरेऽप्युक्तम्सर्वे वेदा न तत् कुर्युः सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया. ॥ ४९ ॥ कृमिकीटपतङ्गेषु तृणक्षादिकेष्वपि । दयां सर्वत्र कुर्वीत यथात्मनि तथा परे ॥ ५० ॥ स्वयं रक्षति यो जीवान् रक्षयत्यपरानपि । इहापि सोऽद्भुतामृद्धिमेति भीमकुमारवत् ॥ ५१ ॥ तथाहिपुरमस्त्यत्र कमलपुरं यद् भूमिपल्वेले । श्रिया नित्यकृतावासं विकाशि कमलायते ॥ ५२ ॥ तत्र प्रजापतिायस्रष्टाऽऽसीद् हरिवाहनः । तत्प्रिया मालती नाम मालतीव गुणोज्ज्वला ॥ ५३ ।। साऽन्यदा सिंहमङ्कस्थं स्वप्ने दृष्ट्वा न्यवेदयत् । राज्ञः, राजापि सानन्दं निशम्याभिननन्द तम् ॥ ५४॥ अथ प्रभातकृत्यानिः कृत्वाऽऽस्थानगतो नृपः । .. द्विजमाकारयामास स्वमशास्त्रविशारदम् ॥ ५५ ॥ तत्र दत्तासनासीनं तं पप्रच्छ नृपो ननु । पूर्व कथय मे तावत् कस्य स्वप्नस्य किं फलम् ? ॥ ५६ ॥ द्विजः प्राह शृणु स्वामिन् ! दृष्टचिन्तितवर्जितः। स्वच्छदेहैश्च यो दृष्टः स स्वप्नः फलदोऽखिलः ॥ ५७ ॥ आरोहो गो-वृषे वृक्ष-शैल-प्रासाद-हस्तिषु ।। । सर्वदानानि चैव हि, एवमपि । २ भूमिसरसि।