SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीपार्श्वनाथचरिते रोदनाऽगम्यगमने स्वप्ने मृत्युश्च शस्यते ॥ ५८ ॥ वस्त्रा-ऽन-फल-ताम्बूल-पुष्प-दीप-दधि-ध्वजाः। सद्रन-चामर च्छत्र-मन्त्रा लब्धा धनप्रदाः ।। ५९ ॥ आसनं शयनं यानं शरीरं वाहनं गृहम् । यो ज्वलद्वीक्ष्य जागर्ति तस्य लक्ष्मीः समन्ततः ॥ ६ ॥ चन्द्रग्रासेऽम्बुधेः पाने निजान्त्रैर्वेष्टिते पुरे । राज्यलाभः सरो-नद्योस्तरणे च शुभोदयः ॥ ६१ ॥ देवस्य दर्शनं धन्यमर्चनं च विशेषतः । आज्यलाभः पयःपानं श्रिये चार्केन्दुदर्शनम् ।। ६२ ।। तैलकुङ्कुमलिप्तं स्वं गीतनृत्यपरं तथा । हसन्तं वीक्ष्य दुःखाय श्वापदोपद्रवो भिये ।। ६३ ॥ शय्या-द्वारा-गलाभङ्गे भार्याया जायते मृतिः । अङ्गच्छेदे पुनदृष्टे पितृमातृसुतव्ययः ॥ ६४ ॥ रक्तकृष्णाम्बरभृता स्त्रिया श्लिष्टस्य रुग् मृतिः । शुक्लमाल्यांशुकभृता पुनः श्रीः सर्वतोमुखी ॥ ६५ ॥ निगडे पाशबन्धे च प्रतिष्ठा स्यात् सुतोऽथवा । गुरुदेवपितृक्ष्मापैरादिष्टं यत् तथैव तत् ॥ ६६ ॥ शस्तं शुक्लं शुभं सर्व निन्द्यं कृष्णं त्वशोभनम् । इत्यादि बहुधा देव ! स्वमशास्त्रे निगद्यते ।। ६७ ॥ पुनः पप्रच्छ भूपालो राझ्या स्वप्नेऽद्य वीक्षितः । प्रशान्तः सिंह उत्सङ्गे किं फलं तस्य भो द्विज ! ? ॥६८॥ सोऽवदद् देव ! सत्पुत्रलाभाय स्त्रीभिरीक्षिताः । स्वमे कलश-सूर्ये-न्दु-गज-सिंह-महाषाः ॥ ६९ ॥ ततो भूपोऽतिसंतुष्टः संमान्य व्यसृजद् द्विजम् । आशंसाऽपि सुपुत्रस्य कस्य नोल्लासयेद् मनः ? ॥ ७० ॥ अथ स्वसमये राज्याः प्राज्यतेजाः सुतोऽजनि । पूर्वक्रमागतं भीम इति नामाऽस्य निर्ममे ॥ ७१ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy