________________
द्वितीयः सर्गः ।
तस्य क्रमेण वर्धिष्णोः सुतो बुद्धिलमन्त्रिणः । अभूत् तुल्यवया मित्रं मन्त्री च मतिसागरः ॥ ७२ ॥ अन्यदा स्नेहतो भीमः प्रातर्यातो नृपान्तिकम् । प्रणमन् भूभुजालिङ्गय निजोत्सङ्गे निवेशितः ॥ ७३ ॥ अथोचितासनासीनः स्वाङ्के पदयुगं पितुः । कृत्वा संवाहयंस्तस्य शासनं यावदिच्छति ॥ ७४ ॥ तावदारामिकेणैत्य विज्ञप्तं देव ! दिव्यवाक् । अभिनन्दमुनीन्द्रोऽद्य चम्पकोद्यानमागतः ॥ ७५ ॥ तत् श्रुत्वा हर्षरोमाञ्चैरसंमादिव भूषणम् । स्वाङ्गादुत्तार्य मुकुटवर्ज तस्मै ददौ नृपः ॥ ७६ ॥ कुमार मन्त्रि - सामन्तसहितो वन्दितुं नृपः । गतो गुर्वन्ति पञ्चविधाभिगमपूर्वकम् ॥ ७७ ॥ सचित्ताचित्तयोस्त्यागात्यागौ तद्दर्शनेऽञ्जलिः | चित्तैक्यमुत्तरासङ्गोऽभिगमः पञ्चधा गुरोः ॥ ७८ ॥ तत्रार्कवत्तपस्तेजोदीसं तापहरं पुनः । सोमवच्छीतलं किन्तु वक्रतामलवर्जितम् ॥ ७९ ॥ ज्ञानादिगुणरत्नाढ्यं गम्भीरं च समुद्रवत् । न तु क्षारत्वदोषेण जडत्वेन च दूषितम् ॥ ८० गुरुं दृष्ट्वा भृशं तुष्यन्नवन्दत नरेश्वरः । धर्मलाभाशिषं सोऽपि ददौ दुरितहारिणीम् ॥ ८१ ॥ (विशेषकम् )
नासने नातिदूरे च निविष्टो नृपतिः पुरः । सूरिणापि समारंभे विशुद्धा धर्मदेशना ।। ८२ । अहो ! कोsपि यथा कूर्मो वसन्निर्गापल्वले । वातोत्सारितशेवालाऽवकाशेनेन्दुमैक्षत ॥ ८३ ॥ वातेनैव पुनस्तत्राऽवकाशे नीलिपूरिते । १ अतलस्पृशि सरसि ।
७७