SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीपार्श्वनाथचरिते कूर्मस्येन्दुर्दुरापोऽभूद् मनुष्यत्वं तथाङ्गिनः ॥ ८४ ॥ प्राप्यते हि प्रयत्नाद् यदनुत्तरसुरैरपि । तदिदं प्राप्य मानुष्यं यतितव्यं शिवाऽध्वनि ॥ ८५ ॥ स च द्वेधास्ति तक ऋजुर्वक्रोऽपरः पुनः । ऋजुमार्गो यतेर्धर्मस्तेनाशु शिवमाप्यते ॥ ८६ ॥ रागद्वेषाभिधौ तत्र सिंहव्याघ्रौ तु तिष्ठतः । क्रोधनामा महादाको मानो विषमपर्वतः ॥ ८७ ॥ मायागुपिलवंशाली लोभो गर्तोऽतिविस्तृतः । विषया विषवृक्षाच धूर्ताः पाखण्डिकादयः ॥ ८८ ॥ वेतालाच पुनर्घोरा द्वाविंशतिः परीषहाः । सावधानैरविश्रान्तैर्गन्तव्यं तत्र सर्वदा ॥ ८९ ॥ ततो यद्यस्ति ते शक्तिरेताञ्जेतुं तदाश्रय । ऋजुमार्ग यतः श्रेष्ठं यतिधर्मात् परं न हि ।। ९० ॥ अन्यथा वक्रमार्गोऽस्ति गृहिधर्मापराभिधः । चिरात् तेनाप्यते सिद्धिः किन्त्वेष न हि दुर्गमः ॥ ९१ ॥ ततो भालतलन्यस्तकरपङ्कजकुड्मलः । नत्वा विज्ञपयामास गुरुं गुरुमुदा नृपः ।। ९२ । नाद्यापि यतिधर्मेऽहं समर्थः सुप्रभो ! ततः । प्रसद्य गृहिधर्मो मे दीयतां यदि योग्यता ॥ ९३ ॥ गुरुणा गृहिधर्मोऽथ भूभुजेऽणुव्रतादिकः । दत्तः सम्यक्त्वमूलस्तं नृपः सम्यक् प्रपन्नवान् ॥ ९४ ॥ जातश्रद्धः कुमारोऽपि तं प्रपित्सुर्विशेषतः । प्रसादितः स योग्यत्वाद् गुरुणैव हितैषिणा ।। ९५ ।। प्रवृत्त्याख्य- निवृत्याख्यनियमौ यस्य सुक्रमौ । सत्सङ्गः कटिरास्तिक्यमुदरं हृद्विवेचनम् ||१६|| भुजौ शमदमौ पृष्ठं पश्चात्तापो गलं क्षमा । १ वंहितेक्षणात् इत्यपि । >
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy