SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। ७१ ध्यानद्वयीदशनवानुरुकीर्तिशुण्डः । पार्थः करी शमवनैकविहारभावो गीर्दानतः शमयताजगतीरजांसि ॥ ८८५ ॥ इति श्रीकालिकाचार्यसंतानीयश्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरित्रे महाकाव्येऽष्टसर्गे भावाके श्रीपार्श्वनाथप्रथम द्वितीय तृतीयभववर्णनो नाम प्रथमः सर्गः । अर्हम् अथ द्वितीयः सर्गः। अथ पूर्व विदेहेषु सुकच्छे विजये गिरौ । वैताढ्येऽस्ति धनैराढ्या तिलका नामतः पुरी ॥१॥ उत्तुङ्गचङ्गधवलप्रासादच्छद्मनाऽनिशम् । पुरीप्रभुतया यस्या यशोराशिरिवोच्छ्रितः ॥ २॥ सर्वदाऽनेकविद्याभिर्यत्र विद्याधरा नराः। आश्लिष्टा अपि मुच्यन्ते नैव क्षणमपि श्रिया ॥ ३ ॥ मुखैश्चन्द्रमसं, नेत्रैः कमलं, कोकिलं स्वरैः । गमनै राजहंसं च जिग्युर्यत्राऽबला अपि ॥ ४ ॥ तत्र विद्युद्गति म राजा विद्याधरेश्वरः। बभूव स्वयशोदुग्धक्षालिताशेषदिग्मुखः ॥ ५॥ नम्रखेचरकोटीरमाणिक्यमकरी सदा । यस्य पादनखश्रेणिप्रभाजालजलेऽवसत् ॥ ६॥ निजाचारेण लोकानां मानसानि हरनपि । न्यायनिष्ठ इति ख्यातिमवाप खेचरेषु यः ॥ ७ ॥ रूपलावण्यसौभाग्यैः तिलकत्वेन योषिताम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy