________________
षष्ठः सर्गः
साऽपि तं स्वगृहे नीत्वा संक्षेपात स्नान- भोजनम् । कारयित्वाऽल्पवस्त्राणि परिधाप्याऽभयं ददौ ॥ ५०३ ॥ स तु त्रिभुवनैश्वर्यलाभादप्यधिकं तदा । जीवितव्याऽभयं प्राप्य न माति स्म मुदा हृदि ॥ ५०४ ॥ गते तस्मिन्नहोरात्रे प्रातः शीलमती स्वयम् । तं धर्मतनयं कृत्वा पुरो राजकुलं ययौ ।। ५०५ ॥ सोऽपि तत्र पुरो राज्ञो मृगेन्द्रासनवर्तिनः । समग्रेऽपि समालोके कौतुकोदचितानने ।। ५०६ ॥ एषा याचिष्यतेऽस्मत्तोऽप्यधिकं किमितीयया ।
३१३
स्थानं निविष्टासु राज्ञीषु निखिलास्त्रपि ।। ५०७ ॥ वल्गनोललने नृत्तं सिंहनादमथोच्चकैः । हर्षेण कुवन् नो केषामाचिक्षेप मनो-दृशः १ ॥ ५०८ ।। ? अन्यादृशमिवाऽथैनं वीक्ष्य राजाऽपि विस्मितः । पप्रच्छ वद रे ! सत्यं किं कारणमिदं यतः ॥ ५०९ ॥ एतावदिवसान् यावद् मण्डितोऽपि महर्द्धिभिः । विषण्णवदनच्छायो मषीलिप्त इवाऽभवः ? ।। ५१० ।। अद्य तु स्वल्पवेषोऽपि पादचार्यपि हर्षितः । कुर्वाणो विविधां चेष्टामुन्मत्त इवेक्ष्यसे || ५११ ॥ सोऽप्याह श्रूयतां देव ! शूलारोपाक्षरैस्तव । कर्णप्रविष्टैर्विषवत् सर्वे शून्यं ममाऽभवत् ॥ ५१२ ॥ ततोऽहं भ्रान्तचित्तत्वान्मेनेऽयं क्षोत्रसंन्निभम् । जलं च विषसंवादि सौंधं यमगृहोपमम् ।। ५१३ ॥ पल्यङ्कं शल्यसङ्काशं चन्दनं चूर्णसोदरम् । तुरङ्गं रासभाकारं श्री जीर्णसूर्यवत् ॥ ५१४ ॥ शृङ्खला निगडपायं पाणिपाद विभूषणम् । हारं शरावमालाभं मुकुटं बिल्ववन्धनम् ।। ५१५ ॥
१ क्षेत्रक्षेप्यो मलः । २ सुखासनविशेषः ।
४०