SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते निर्मापितवहुप्रीतिः शर्वरीं समवाहयत् ।। ४९० ॥ प्रातरुत्सारितोपाधिः कारितः प्राच्यवेषभृत् । इन्द्रकेतुरिव भ्रष्ट नीत्वा राज्ञः समर्पितः ।। ४९१ ॥ तं दण्डपाशिकस्याय यावदर्पयते नृपः । तावद् द्वितीयया राज्ञ्या तथैवाऽयं प्रयाचितः ॥। ४९२ ॥ अन्याभिरपि राज्ञीभिरेकैकदिवसं क्रमात् । नृपं विज्ञप्य याचित्वा तं प्रसादे महाग्रहात् ।। ४९३ ॥ सापत्न्यभावसंजातस्पर्धावर्धिष्णुसंमदात् । कृतभूरितरद्रव्यव्ययभावाऽधिकाधिकैः ॥ ४९४ ॥ दोगुन्दुरासुराभासं विधाप्य विविधोत्सवैः । पूरितं कौतुकं स्वस्य मनसस्तस्य नो पुन: ।। ४९५ ॥ अथ तस्य नृपस्याऽस्ति राज्ञी पञ्चशताऽन्तिमा । पत्नी शीलमती नाम पालयन्ती कुलव्रतम् ।। ४९६ ॥ साऽल्पस्थितिपरीवारा निजावासं गता सदा । स्वस्यैव कर्मणो दोषं मन्यते न तु भूपतेः ।। ४९७ ॥ ३१२ आस्तामन्यदलङ्कार-वसनाद्यं प्रसादजम् | विवाहानन्तरं राज्ञा दृष्टा दृष्ट्याऽपि नैव सा ।। ४९८ ॥ न हि मे मन्दभाग्यायाः काऽपि स्पर्धाsत्र विद्यते । अन्याभिः सह राज्ञीभिः किन्तु पङ्किक्रमागतम् ॥४९९ ॥ यद्येतदपि नाssधास्ये न लप्स्ये गणनामपि । हृदये संप्रधार्यैवं साऽपि भूपं व्यजिज्ञपत् ॥ ५०० ॥ ( युग्मम् ) देव ! नाऽऽबोधितः स्वामी कापि कार्ये पुरा मया । चौरस्य पुनरस्यार्थे कर्तव्यं कथयामि यत् ।। ५०१ ॥ तदाकर्ण्याऽथ तां स्मृत्वा तज् ज्ञात्वा गुणगौरवम् । उद्भिन्नपुलकः प्रीत्या मेने सर्व धराधवः ।। ५०२ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy