SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । इत्याद्यशेषं निर्मायोपवेश्य विशदासने । स्वर्णधारस्थसुस्थालकच्चोलाद्यममण्डयत् ॥ ४७८ ॥ शुष्काफलभक्ष्याणि पकान्नं बहुवर्णकम् । शालि-सूपाद्यमाधुर्यघृतपूरादिकं क्रमात् ।। ४७९ ॥ दध्योदनं चेत्यखिलं परिवेष्य सगौरवम् । स्वयं पार्श्वस्थिता राज्ञी भोजनं तमकारयत् ।। ४८० || स्वच्छशीतलसद्गन्धैराचम्य मधुरैर्जलैः । पिष्टिका - हस्तचीराभ्यां रूक्षीकृत्य करद्वयम् ॥ ४८१ ॥ पुष्पद्रव र सस्वच्छ श्रीखण्डेनोपलिप्य च । कर्पूर मिश्रताम्बूलसमाननपुरस्सरम् || ४८२ ।। निषण्णस्याsस्य पल्यङ्के चेटीजनपरावृते । पुरश्चित्रकथाकाव्यविनोदान् देव्यचीकरत् ॥ ४८३ ॥ (विशेषकम् ) ३११ अथाऽपराह्नसमये राज्यादेशेन किङ्करैः । वरं तुरङ्गमारोप्य स्वर्णपर्याणभूषणम् ॥ ४८४ ॥ पट्टसूत्रमयीं वल्गां दधानः करपल्लवे । उपरिष्टाद् धृतोल्लासिमायूरातपवारणः || ४८५ || विष्वक् परिवृतो यत्नात् शतसङ्ख्यामितैर्भटैः । पुरः प्रारब्धसङ्गीतः कुतूहलकरैर्नरैः ।। ४८६ ॥ सपञ्चशब्दनिर्घोषः पठन्मङ्गलपाठकः । उत्फुल्लनयनैर्लोकैर्वीक्ष्यमाणः सकौतुकम् ॥ ४८७ ॥ विपणिश्रेणिमार्गेण मन्दं मन्दं च सश्चरन् । दर्शितानेकद्रष्टव्यः स नीत्वा राजमन्दिरम् ॥ ४८८ ॥ उच्चैर्वातायनस्थाय नृपाय विहितानतिः । आसन्नं बहिरावासमानिन्ये दिवसात्यये ।। ४८९ ॥ ( षड्भिः कुलकम् ) तत्र मातङ्गगीतेन दास-दासीकुतूहलैः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy