SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते परं चौरो न मोक्तव्य इत्यभिग्रहतो नृपः ॥ ४६४ ॥ आदिदेश तलारक्षं शूलारोपाय तस्य सः । यावच्च सहसा तेन चालितस्तावदन्तरे ।। ४६५ ॥ वामपक्षासनासीना पट्टराज्ञी प्रियङ्करा । शरण्यरहितं वीक्ष्य तं दीनवचनाननम् ।। ४६६ ॥ हा ! निराशो वराकोऽस्तं मा गादिति दयावशात् । नृपं विज्ञपयामास देवाऽद्यायं ममायताम् ||४६७ || येनाऽस्य तनयस्येव संसारसुखकौतुकम् । दिवैकं दर्शयित्वाऽस्य पूरयामि मनोरथम् ।। ४६८ ॥ अथाऽनुल्लङ्घ्यवाक्यत्वादनुज्ञाता नृपेण सा । वन्धमुच्छिय तं निन्ये निजावासे वसन्तकम् ॥ ४६९ ॥ तदादिष्टाः परीवारजनाः स्नानादिहेतवे । तत्र तं शतपाकाद्यैस्तैलैरभ्यज्य सादरम् || ४७० || अङ्गं सुगन्धचूर्णेनोद्वर्त्य लालित्यकोविदाः । स्नानपीठे च विन्यस्य सुवर्णकलशाऽऽहितैः || ४७१ ॥ उष्णैः कदुष्णैः पुष्पाढ्यैः स्वच्छैश्व सलिलैः क्रमात् । स्नपयामासुरुद्भूतशङ्खनिर्घोषपूर्वकम् ॥ ४७२ ।। अ काषायवस्त्रेण रूक्षयित्वाऽच्छवाससी । कदलीगर्भशङ्काशे परिधाप्य सवेणिके || ४७३ ॥ असिता गुरुधूमेन धूपयित्वा शिरोरुहान् । धम्मिलं विदधुमल पुष्पप्राग्भारभासुरम् ४७४ सच्चन्दनरसेनाङ्गं विलिप्याभरणोत्करम् । दिव्यं निवेशयामासुर्यथास्थानमनाकुलाः || ४७५ ।। स्वर्णशृङ्खलके मुक्तासरिके पाणि पादयोः । वाह्वोः सवीरवलये केयूरेऽङ्गुलिपूर्मिकाः || ४७६ ॥ सनकण्ठकं कण्ठे हारत्रिसरकादि च । कर्णयोः कुण्डलं मूर्ध्नि मुकुटं चाऽलिके घटीम् ॥ ४७७ ॥ ३१०
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy