________________
षष्ठः सर्गः
३०९ भयभ्रान्तेक्षणः किञ्चित् किश्चिदाश्वस्तमानसः । पदे पदे स्खलद्वाक्यः स जगाद तदादितः॥४५१ ॥ देव ! विन्ध्यपुरे विन्ध्यभूपतेः प्रीतिसमनः । श्रेष्ठिनो वसुदत्तस्य वसन्ताख्योऽहमङ्गजः ॥ ४५२ ॥ लालितः पालितोऽत्यन्तं पाठितः परिणायितः । तन्न यन्न सुखं प्रापमहं तातप्रसादतः ॥ ४५३ ॥ दुर्दैववशतः किन्तु द्यूतव्यसनवानहम् । अभवं तेन दुःखातपितृभिः स्वजनैर्जनैः ॥ ४५४ ॥ नितान्तं शिक्ष्यमाणोऽपि प्रत्यासन्नतयाऽऽपदः । न द्यूतममुचं नीरे मिमजिषुरिवोपलम् ।। ४५५ ॥ सर्वदोषनिवासेन सर्वाऽनर्थविधायिना । तेन सर्वविरोधेन व्यसनेन प्रणोदितः॥ ४५६ ॥ वञ्चयित्वा दृशं गेहान् बहिर्द्रव्यं शनैः शनैः । नेतुमारब्धवानस्मि प्रस्थानकमिवात्मनः ॥ ४५७ ।। ततो राजकुले गत्वा कृष्णाक्षरविधिक्रमात् । तत् तादृग् वल्लभोऽप्येष पित्रा निष्कासितो गृहात् ।।४५८॥ तेजसेवाऽथ तेनाऽहं पित्रा मुक्तो गतद्युतिः । निरङ्कुशतया खैरं भ्रमामि जगतीतले ।। ४५९ ॥ भिक्षां प्रतिगृहं याचे शून्यदेवकुले शये । पापकृत्याच नो शङ्के छूतेन च पुना रमे ॥ ४६० ॥ एवं हतमतिर्यावन्नगरेऽत्र समागमम् । दृष्ट्रा च मुदितं लोकं ममापीच्छा सुखेऽभवत् ।।४६१॥ तच्च द्रव्यं विना न स्यान्नष्टोपायान्तरो निशि । तत् प्रवृत्तोत्र चौर्याय धृतश्च तव पूरुषैः ॥ ४६२ ॥ इत्थमात्मीयवृत्तान्तो यथावत् कथितो मया । त्वमेवाऽतः परं दैवं कुरु नाथ ! यथोचितम् ॥ ४६३ ॥ ईषदामनस्कोपि तत्स्वरूपनिरूपणात् ।