________________
श्री पार्श्वनाथचरिते
ज्ञानदानस्य माहात्म्यमित्थं स्व- परयोर्हितम् । वर्णितं साम्प्रतं जीवाऽभयदानं प्रपञ्च्यते ॥ ४३९ ॥ सर्वे जीवितुमिच्छन्ति जीवास्तदभयं ततः । ध्रुवं त्रिभुवनैश्वर्यदानादव्यतिरिच्यते ॥ ४४० ॥ ग्रन्थान्तरेऽप्युच्यते
नातो भूयस्तरो धर्मः पृथिव्यामस्ति कश्चन । प्राणिनां भयभीतानामभयं यत् प्रदीयते ।। ४४१ ॥ एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् || ४४२ ॥ जीवितव्याभयं प्राप्य हीनदीनोऽपि सम्पदात् । मन्यते स्वं त्रिलोकीशं दृष्टान्तोऽत्र वसन्तकः ॥ ४४३ ॥ तथाहि
३०८
SERD
श्रीवसन्तपुरे भूमिमण्डलाखण्डलः पुरा । मोऽभून्नृपतिस्तेजोवज्रक्षपितभूमिभृत् ॥ ४४४ ॥ तस्य प्रियङ्करा नाम राज्ञी पञ्चशताग्रणीः । दयिता निजरूपेण निर्जितामरसुन्दरी || ४४५ ॥ तेन राज्ञा भुवं नीत्या रक्षता सुखितात्मनाम् । दिवो वार्ताऽपि लोकानां विसस्मार कुतोऽर्थिता ? || ४४६ ॥ अन्यदा तत्र यामिन्यां कोऽपि चौरः सलोकः । दृष्टो बद्धस्तलारक्षैर्निन्ये च नृपतेः पुरः || ४४७ ॥ तं निरीक्ष्य सभासीनो नृपः क्रौर्यस्पृशा दृशा । पुनः प्रसन्नया किञ्चित् तदङ्गे चङ्गिमेक्षणात् ॥ ४४८ ॥ विधाप्य शिथिलं बन्धं प्रोचे विस्मितमानसः ।
वद रे ! तव को देश का जातिः किमु नाम च १ ॥ ४४९ ॥ वयस्येवंविधे नव्ये वैपुराकारलक्षणम् । विरुद्धमिदमारेभे चौरकर्म च किं त्वया ? ।। ४५० ॥
१ चौर्यधनसहितः । २ शरीराकृतिकलङ्कम् ।