________________
.. षष्ठः सर्गः।...
३०७
स ज्ञानोपनहे. सर्वप्रयत्नेन प्रवृत्तवान् ॥ ४२५ ॥ परिपूर्णमनुष्यायुः स सौधर्मे सुरोऽभवत् ।। तच्च्युतः सुकुले जातो धनमित्राऽभिधो नरः ॥ ४२६॥ तत्रापि सावशेषत्वाज् ज्ञानावरणकर्मणः। पठतोऽपि भृशं किश्चिनैति तस्य कथञ्चन ॥ ४२७ ॥ ईहापोहं स वैराग्यात् कुर्वाणो जातिमस्मरत् । ततः प्राग्वत् श्रुतज्ञानोपष्टम्भं कर्तुमुद्यतः ॥ ४२८ ।। दुष्कृतं गर्हतस्तस्य संवेगादतिदुस्तरम् । ज्ञानावरणमुच्छिन्नं प्रव्रज्यां च प्रपन्नवान् ॥ ४२९ ।। साङ्गोपाङ्गे श्रुतेऽधीती स्मारं स्मारं पुरा कृतम् । ज्ञानदाने सदोमुक्तः केवलज्ञानमासदत् ॥ ४३० ॥ तत्रासन्नसुरैश्चक्रे दुन्दुभिध्वानपूर्वकम् । वर्णपद्मं तदाऽऽसीनः केवली धर्ममादिशत् ॥ ४३१ ॥ इह सर्वः सुखस्यार्थी सुखं सच्चरणाद् भवेत् । सदाचारः पुनज्ञानाज् ज्ञानं ज्ञानप्रदानतः ॥ ४३२ ॥ ज्ञानदानं च सच्छास्त्रव्याख्या-ऽध्यापन-वाचनैः । अधीयानेषु साहाय्याज ज्ञानोपकरणार्पणैः ।। ४३३ ॥ तदत्र प्रयतैर्भाव्यं न कार्या ज्ञानहीलना। . ज्ञानावज्ञानतो दुःखं मयाऽप्यासादित पुरा ॥४३४॥ तत् श्रुत्वा तं नमस्कर्तुमागतैर्देव-मानवैः । स पृष्टो निजवृत्तान्तमाचचक्षे प्रमादजम् ॥ ४३५ ॥ इत्थं तस्योपदेशेन बहवो भव्यजन्तवः । प्रबुद्धा ज्ञानमाराध्य क्रमादापुः परं पदम् ॥४३६॥ इत्यसौ ज्ञानदानेन स्वमुद्दधे परानपि । पश्चादपि चिरस्थायि तज् ज्येष्ठं तेन कथ्यते ॥४३७॥ ज्ञानं तु तदुपादेयं यत् स्यात् स्वस्य परस्य च । निर्व्याघातप्रकाशार्थमभ्रदीपालयोपमम् ॥ ४३८ ॥