________________
३०६
श्रीपार्श्वनाथचरितेस कालेनाऽप्रतिक्रान्तो मृत्वा सौधर्ममासदत् । ततश्च्युत्वा पद्मपुरे धनश्रेष्ठिसुतोऽभवत् ४१३ ॥ धनशर्माऽभिधः सोऽथाऽऽरेभेऽध्यापयितुं क्षणे । किमपि प्राकृतज्ञानावज्ञादोषेण नैति तु ॥ ४१४ ॥ एवं पञ्चशतीसङ्खयोपाध्यायैर्वीक्षितः परम् । नैकमप्यक्षरं हृद्याधातुं शेकेऽस्य वज्रवत् ॥ ४१५ ॥ ततो बहुधनस्तस्य तदेकतनयः पिता । दध्यौ विषादाद् हा ! कष्टं किमु कार्य मयाऽधुना?॥४१६।। यत उच्यतेअजात-मृत-मूर्खेभ्यो मृता-ऽजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो भवेत् ।। ४१७॥ देवानां भाषते पूजां करोति विविधौषधान् । मान्त्रिकानाह्वयत्यार्तो निमित्तज्ञांश्च पृच्छति ।। ४१८ ॥ व्यर्थीभूतेषु सर्वेष्वप्युपायेषु धनोऽन्यदा। बहिः श्रुत्वाऽऽगतं साधुं तत्र पुत्रयुतो ययौ ॥ ४१९ ॥ नीचैर्नत्वा मुनेः पादौ पप्रच्छ कथय प्रभो ! । प्राक् कर्म किं कृतं येन मत्पुत्रः प्रस्तरोऽजनि ॥४२०॥ मुनिः पूर्वकृतज्ञानावज्ञाव्यतिकरं जगौ । तन्निशम्याऽभवजातिस्मरणं धनशर्मणः ॥ ४२१ ॥ मुनि नत्वाऽवदचैवं प्रभो ! सत्यं तवोदितम् । भीतोऽहं संप्रति ज्ञानावरणं गलिता कथम् ॥ ४२२ ॥ मुनिराह महाभाग ! ज्ञानावरणकर्मणः । नाशः स्याज् ज्ञानदानेन तत् साक्षाद् घटते न ते ॥४२३॥ तज् ज्ञान-ज्ञानिनां बाढं बहुमानं कुरुष्व भोः !। श्रुतं च पठतां भक्त-पुस्तकाद्यैरुपग्रहम् ॥४२४।। तनिशम्य महात्माऽसौ पश्चात्तापं परं दधत् । १ शक्लृट् शक्तौ । २ पाषाणः, जड इति यावत् ।