SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ पष्ठः सर्गः ततो यथा कनिष्ठाऽपि वधूर्गुज्ञिया कणान् । वृद्धिमारोप्य सर्वासु सुमहत्त्वं समा यत् ॥ ४०० ॥ त्वयाऽपि हि महाभाग ! तथैव व्रतपञ्चकम् । सम्यग् नीत्वा परां वृद्धिमात्मा कार्यो महोदयः॥४०१॥ तथेति प्रतिपद्यैतद् विजयो गुरुणा समम् । विहरत्युद्यतो धर्मे श्रुताऽध्ययनतत्परः ॥ ४०२ ॥ कालेन योग्यतां ज्ञात्वा न्यस्य तं स्वपदे गुरुः । बमाण वत्स ! सर्वेषु पदेष्वग्रमिदं पदम् ।। ४०३ ॥ तत् सदैवाऽप्रमत्तेन शिष्याणां वाचनादिना। ऋणमोक्षस्त्वया कार्यो वृद्धिश्च जिनशासने ॥ ४०४ ॥ इति तं शिक्षयित्वाऽसौ चिन्ताभारच्युतो द्रुतम् ।। सम्मेतगिरिमारुह्य निर्वाणमगमद् गुरुः ।। ४०५॥ विजयोऽप्यथ शिष्याणां वाचना-ऽध्यापनादिना । उद्युक्तो विहरन्नुच्चैर्महती महिमामगात् ॥ ४०६ ॥ बहुकाले गते शास्त्रश्रमेण विविधोत्तरैः । परे च स तथा भग्नो यथा वक्तुमपि स्थितः ॥४०७ ॥ चित्ते च चिन्तयत्येवं मुमयोऽमी वरं जडाः । ये परमश्नशास्त्रातिविमुखाः सुखमासते ।। ४०८ ॥ स्थविरैः प्रेरितो ब्रूते कण्ठशोषेण किं नु भोः ! १ । तपस्येवादरः कार्यों यः क्रियावान् स पण्डितः ।।४०९॥ विनवाऽध्ययनं सिद्धिलेभे माप-तुषादिभिः । ब्रुवन्नित्यादिदृष्टान्तं स्थविरैः स उपेक्षितः ॥४१०॥ हताविव पयो विद्या किं करोति निराकृतौ ? । नरो नाऽतिमृदुर्नाऽतितीक्ष्णोऽन्नमिव शस्यते ॥४११ ॥ परबोधक्षमेणाऽपि केनाऽपि स्खं न बोध्यते । धवलीकृतविश्वोऽपि चन्द्रः स्वाईन शुभ्रयेत् ॥ ४१२ ॥ १ मुनिविशेषैः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy