________________
श्रीपार्श्वनाथचरिते
१
तथा तन्यं यथा तेने रोहिण्या त्रीहिपञ्चकम् || ३८७ ॥ अथ तत्वामृतास्वादनिर्वृते विजयो जगौ । प्रभो ! का रोहिणी नाम गुरुरप्येवमब्रवीत् ? ।। ३८८ ॥ श्रेष्ठी दत्ताभिधः स्वीयचतुष्पुत्रवधूः पुरा । गृहकर्मनियां गाय समारेभे परीक्षितुम् || ३८९ ।। पितृवर्ग वधूनां स संमील्य स्वजनानपि । कृत्वा भक्तादिसत्कारं यथौचित्यं न्यवीविशत् ।। ३९० ॥ तत्समक्षं समाकार्य ज्येष्ठानुक्रमतो वधूः ।
३०४
स त्रीहिपञ्चकं दत्त्वा प्रत्येकमिदमादिशत् ।। ३९१ ॥ तथाऽमी व्रीहयो धार्या यथा मे यच्छतः पुनः । हे ! वध्वोऽर्पयतेत्युक्त्वा विससर्जाऽखिलं जनम् ||३९२| ज्येष्ठया चिन्तितं वध्वा वृद्धोऽयं ग्रहिलोऽभवत् । इत्थं द्रव्यव्ययं कृत्वा यश्चकार विडम्बनाम् || ३९३ ॥ ते तयेति बहिस्त्यक्ताः, शेष मत्वा द्वितीयया । भक्षिताः, गोपितास्ते तु प्रयत्नेन तृतीयया ।। ३९४ ॥ चतुर्थ्या तु स्वबन्धूनां समर्प्य व्रीहिपञ्चकम् | प्रतिवर्ष वापयित्वा निन्ये तच्च धिया ततिम् || ३९५ ।। अथेभ्यः पञ्चमे वर्षे संमील्य स्वजनान् पुनः । तानेव शपथं दत्त्वा वधूहीनयाचत ।। ३९६ ॥ वध्वोऽपि कथयामासुः कुलीनत्वाद् यथास्थितम् । इभ्येनाभाणि युष्माभी रोष्यं भोः ! स्वजना न हि ।। ३९७॥ तदेतासामभूदेवं बुद्धिः कर्मानुसारिणी ।
इत्युक्त्वा ता यथौचित्यं गृहकार्ये नियोजिताः ॥ ३९८ ॥ झिका भस्म-पुञ्जादौ रसवत्यां च भक्षिका । भाण्डागारे रक्षिता तु गृहस्वाम्ये च रोहिणी ।। ३९९ ॥ १ निर्माल्यदानम् । २ त्यागिनी ।