________________
षष्ठः सर्गः।
३०३
शैक्षवद् वश्चयित्वैनं भवक्रीडारसं बजत् ॥ ३७४ ॥ घटी निरवधानस्य गणकस्येव मज्जति । . युङ्ग्यात् तेन मनो लक्ष्ये धन्वीवाऽभ्यासतः शरम् ॥३७५॥ धीरः सचेतनो मौनी यो मार्गे यात्यसङ्गतः । बलिष्ठरपि मोहाद्यैः स शिवं यात्यगर्जितः ।। ३७६ ॥ अज्ञानाजायते दुःखं सज्ञानाच्च सुखं पुनः । अभ्यस्यं तत् तथा तेन स्वात्मा ज्ञानमयो भवेत् ॥३७७॥ अल्पज्ञानेन नो शान्ति याति दृप्तात्मनां मनः । स्तोकदृष्ट्या यतस्तप्तभूमिरूष्मायतेतराम् ।। ३७८ ।। बह्वासङ्गेन जीवस्याऽत्यासन्ना अपि पापिनः । ज्ञातास्तेन स्वयं यान्ति दोषा हीता इव ध्रुवम् ॥ ३७९ ।। विज्ञातभवतत्त्वस्य दुःखं शोकेऽपि नो भवेत् । तानं स्वर्ण विदित्वा यो गृह्णीते तस्य कः क्लमः ? ॥३८०॥ पङ्गुरूपं नृणां भाग्यं व्यवसायोऽन्धसनिमः। यथा सिद्धिस्तयोर्योगे तथा ज्ञान-चरित्रयोः॥ ३८१ ॥ मैत्री-प्रमोद-कारुण्य-माध्यस्थ्याख्या महागुणाः । युक्तस्तैर्लभते मुक्तिं जीवोऽनन्तचतुष्टयम् ॥ ३८२ ॥ मैत्री परहिते चिन्ता परार्तिच्छेदधीः कृपा । मुदिता सद्गुणे तुष्टिमाध्यस्थं पाप्युपेक्षणम् ॥ ३८३ ॥ क्षिप्तोऽपि लघुकर्माधः स्यादुच्चैस्तुम्बवजले । अश्मवद् गुरुकर्मा तु नीतोऽप्यूर्ध्वमधो व्रजेत् ३८४ ॥ निर्माय स्वभवं चैत्यं आदिमध्यान्तसुन्दरम् । निर्वाहकलशं कोऽप्यारोप्य कीर्तिध्वनां नयेत् ॥ ३८५ ॥ इति तत्त्वोपदेशाख्यं मयाऽनं परिवेषितम् । तव दीक्षामये पात्रे तद् भुक्त्वा त्वं सुखी भव ॥ ३८६।। किश्चैतद् भवतो भद्र ! सन्महाव्रतपञ्चकम् । १ अभीतः।