________________
३१४
श्रीपार्श्वनाथचरितेडिम्भकल्प परीवारं तलारक्षसमान भटान् । पञ्चशब्दनिनादं च विषमानकदारुणम् ।। ५१६ ॥ अन्यायघोषणाकारि तुल्यं बन्दिजनं पुनः । भ्रमयित्वा वधस्थाननयनाभमिहागतम् ॥ ५१७ ॥ भविष्यन्मरणाशङ्काशङ्कुकीलितचेतसः । एकां मे ध्यायतः शूलां तत् सर्व तन्मयायितम् ॥५१८॥ अद्य देव ! पुनर्विश्वपावन्या मूर्तिगङ्गया । धर्ममात्रा मम स्त्रीषु सुगृहीताभिधानया ॥ ५१९ ॥ श्रीशीलमत्या दुर्देयं जीवितव्याऽभयं ददे । तेन सर्व जगत् पूर्ण पश्याम्यधिवसामि च ॥ ५२० ॥ तत् श्रुत्वा भूभुजा चैक्षि तस्या वदनपङ्कजम् । साऽप्यूचे श्रीमुखेनाऽस्मै दीयतामभयं विभो ! ॥ ५२१ ॥ देवि ! प्रदत्तमेवेदं किमप्यन्यन्निवेद्यताम् । साऽवोचत् त्वत्प्रसादेन न्यूनं किमपि नो मम ॥ ५२२ ॥ अहो ! गाम्भीर्यमेतस्या अहो ! निर्लोभतागुणः । अहो ! सत्याः परं दाक्ष्यमहो ! जीवदयालुता ॥ ५२३ ॥ अहो ! वचनमाधुर्यमहो ! काऽपि प्रसन्नता । ध्रुवमस्याः प्रभावेन मम राज्यं प्रवर्धते ॥ ५२४ ॥ इति तोषानिवेश्यात्मवामाङ्गे तां त्रपालसाम् । पट्टराज्ञीपदे सद्यः स्थापयामास भूपतिः ॥ ५२५ ॥ पश्चिमद्वारगामिन्यो नद्यः सर्वा नदीपतेः । प्रवेशं लभते पूर्वद्वारि गङ्गा शुचिः पुनः ॥ ५२६ ॥ पत्युः प्रसादमासाद्य सच्चरित्रजलेन सा। कश्मलं क्षालयामास सपत्नीमनसामपि ॥ ५२७ ॥ एवं विख्यातवृत्तान्ता विश्वस्याऽपि महाय॒ताम् । गता सुगतिसौख्यं च जीवरक्षाप्रभावतः॥ ५२८॥ १ तन्मयमिवाचरितम् ।