________________
षष्ठः सर्गः।
३१५. वसन्तकोऽपि विख्यातो देव्या धर्मसुतत्वतः। राजप्रसादसंजातः समृद्धिभरभासुरः ॥५२९।। विविधां च विचिन्त्यैवं सुख-दुःखविडम्बनाम् । सदाचाररतो नित्यं वासरानत्यवाहयत् ॥५३०॥
(युग्मम् ) अन्यदा सुगुरोः पार्थे श्रुत्वा पूर्वभवे कृतम् । व्रतस्य ग्रहणं भङ्गं संधानं च तथात्मनि ॥५३१॥ जातशुद्धपरीणामो गृहिधर्म यथाविधि । प्रपन्नाणुव्रतः सम्यक् पालयित्वा दिवं ययौ ॥५३२॥ अन्नो-पाश्रय-भैषज्य-वस्त्र-पात्रादिदानतः। उपष्टम्भोऽनेकधात्र चाऽन्नदानं विशिष्यते ॥५३३॥ अन्नदातुरवस्तीर्थकरोऽपि कुरुते करम् । तच्च दानं भवेत् पात्रे दत्तं बहुफलं नृणाम् ।। ५३४ ।।
यत:
पात्रं क्षेत्रं दैदिप्ता धनं बीजं शमो जलम् । वाक्यं वातो यशः पुष्पं फलं पुण्यं सुखं रसाः ।। ५३५ ।। खलोऽपि गवि दुग्धं स्याद् दुग्धमप्युरगे विषम् । पात्राऽपात्रविशेषेण वत् पात्रे दानमुत्तमम् ।। ५३६ ।। पात्रं च त्रिविधं तत्र समताश्रीविभूषिताः । ज्ञान-दर्शन-चारित्ररूपरत्नत्रयान्विताः ।। ५३७ ॥ प्रशान्ततनु वाक्-चित्ता भैक्ष्यमात्रोपजीविनः । रताः परहिते नित्यं यतयः पात्रमुत्तमम् ॥ ५३८ ॥ सम्यग् दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ५३९ ॥ सम्यक्त्वमात्रसंतुष्टा व्रतशीलेषु निःस्पृहाः । तीर्थप्रभावनोद्युक्तास्तृतीयं पात्रमुच्यते ॥ ५४० ॥
१ दाता।