SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । विततच्छाद्यकाकीर्ण मालाकारनिकेतवत् ॥६३१॥ दिव्योरुशिखरं प्राप्तसनेखं सुरशैलवत् । रामसैन्यमिव व्यक्तं सुग्रीवामलसारकम् ॥६३२॥ धनदागारवत् स्फारद्रव्याट्यकलशाश्चितम् । आयशास्त्रमिवाऽभिवर्णनीयगुरुध्वजम् ॥६३३॥ अखण्डमण्डपच्छायं सुविशालबलानकम् । प्रतिबिम्बचलच्चित्रं जगतीपरिवेष्टितम् ॥६३४॥ सुवर्णभित्तिविच्छित्तिसद्रत्नस्तम्भशोभितम् । स्फुरन्मणिमयोत्तानपट्टसोपानतोरणम् ॥६३५॥ वै राज्यकुलसम्भूतं शुद्धनागरजातिकम् । सर्वाङ्गसुन्दरं विश्वकर्मणेव स्वयं कृतम् ॥६३६॥ यशः स्वमिव विस्तीर्ण स्वमानसमिवोन्नतम् । प्रत्यक्षीभूतमात्मीयपुण्यराशिमिवोज्ज्वलम् ॥६३७।। चश्चच्चूडामणीकल्पं श्रीवासनगरश्रियः । जिनेन्द्रभवनं चारु कारयामास भूपतिः ॥६३८॥ (त्रयोदशभिः कुलकम् ) कन्दमानन्दवल्लीनां बीजं सद्धर्मभूरुहः । कर्पूरपिण्डं नेत्राणां मुक्तापुण्ड्रं शिवश्रियः ॥६३९॥ हारतारककुन्देन्दुक्षीरनीररुचामिव । जनितसारमादाय विश्वानन्दाय वेधसा ॥६४०॥ तत्रात्मानमिव स्वच्छस्फटिकोपलनिर्मितम् । नाभेयविम्बं विधिना प्रतिष्ठाप्य न्यवीविशत् ॥६४१॥ (त्रिभिर्विशेषकम् ) कृत्वाऽस्य विधिना मात्रं कुम्भैर्गन्धाम्बुपूरितैः । उच्छलदिव्यवादित्रनिर्घोषापूरिताम्बरम् ॥६४२॥ १ प्रकटसुग्रीवनिर्मलबलमपि । २ आयभवनस्थो गुरुर्यथा.वर्यते तद्वत् । ३ रचना । ४ मुकुटदेश्यम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy