________________
५२
श्रीपार्श्वनाथचरितेविलेपनं च कर्पूरमिश्रसच्चन्दनद्रवैः । त्रिजगभूषणस्यापि भक्त्यारोप्य विभूषणम् ॥६४३॥ पाटला-मल्लिका-जाती-केतकी-चम्पकादिभिः । अभ्यर्च्य कुसुमैः कृष्णाऽगरुधूपमुदक्षिपत् ॥६४४॥
(विशेषकम् ) भूमिः स्नात्रजलैरार्दा धूपधृमाभ्रितं नमः । वादिवं गर्जिताभासं भूषणश्रीस्तडिनिभा ॥६४५॥ पञ्चवर्णप्रसूनश्रीः सुरचापसमप्रभा । तदा शस्याय लोकानां मेघाऽऽगम इवाभवत् ॥ ६४६ ॥
(युग्मम् ) ततः कृत्वोत्तरासङ्गं शुद्धदेशस्थितः पुरः।। न्यस्तजानुयुगो भूमौ त्रिः प्रणम्य कृताञ्जलिः ॥ ६४७ ॥ चिरं निर्वर्ण्य सद्रूपातिशयं परमेशितुः । कृतद्रव्यस्तवो भावस्तवमेवं प्रचक्रमे ॥ ६४८ ।। जय त्रिभुवनाधीश ! श्रीयुगादिजिनेश्वर ! । नम्रामरशिरोरत्नदीपनीराजितक्रम ! ॥ ६४९ ॥ अज्ञानतिमिरं हत्वा नवभानुरिव प्रभो।। प्रकाशितजगद्विद्याव्यवहार ! नमोऽस्तु ते ॥ ६५० ॥ निष्कषायतया चेतःपटे शुभ्रगुणे तव । रागो लगतु मा किंतु तेनाऽरञ्जि कथं जगत् ? ॥ ६५१ ॥ सद्गन्धशीतलस्वच्छो नत्वा पादौ तव स्तवम् । कृत्वा श्रुत्वा च नाथ ! स्यादऽक्षाणां युगपत् सुखम् ॥६५२॥ त्रिलोकीसुभगं वीक्ष्य त्वां चलाया अपि प्रभो ! । स्तम्भस्वेदाताभावो जायते कस्य नो दृशः ? ॥६५३॥ शमाई ! सुकृताऽऽराम ! भवभ्रान्तिभवं मम । त्वत्पादपादपच्छाया तापं निवापयेत् चिरात् ॥ ६५४ ॥ १ मङ्गलाय धान्याय च ।