________________
तृतीयः सर्गः ।
१९१ उवाच कम्पमानाङ्गो मित्र ! भो रक्ष रक्ष याम् ॥४६७॥ लोभनन्दिस्तमाक्षीत् किं त्वया भोः ! विनाशितम् ? । स उवाच कलत्रार्थे स्वामिबहीं हतो मया ॥४६८ ॥ ततो मित्राधमः प्राह स्वामिद्रोहविधायिनः। . स्थानं नास्त्यत्र कः पूलं ज्वलन्तं स्वगृहे क्षिपेत् ॥४६९॥ एवं वदन्तमप्येनं क्षिप्त्वा यावत् प्रभाकरः । प्रविवेश गृहं तावत् पूच्चक्रे लोभनन्दिना ॥ ४७० ॥ आगताश्च भटास्तैः स बद्ध्वा नीतो बहिस्ततः । निग्रहायोद्यतास्तेन सदैन्यमिति भाषिताः ॥४७१॥ बान्धवाः ! न मया कोऽप्युपकारो वः कृतः परम् । अप्रियं यदि नो चक्रे तदा मां रक्षतैकदा ॥ ४७२ ॥ किं वा नयत मां तत्र यथा विज्ञपये प्रभुम् । इत्युक्ते तैः स सिंहान्ते नीतः सकरुणं जगौ ॥ ४७३ ॥ देव ! त्वं मे पिता स्वामी शरण त्वं च सर्वथा । क्षमस्वैकं व्यलीकं यद् गुरवो न गुरुक्रुधः ॥ ४७४ ।। तत् श्रुत्वा भ्रकुटीभङ्गभीषणः सिंह उक्तवान् । अरेऽपय मयूरं वा स्मर वाऽभीष्टदेवताम् ॥ ४७५ ॥ तदा तस्यापदि प्रायो जनोऽभूदाकुलोऽखिलः । विना मित्र-कलत्राभ्यां, ते हि दर्शितविक्रिये ॥ ४७६ ॥ स ऊचे दैवतप्रायं पितुरेव वचः स्मृतम् ।। यदतिक्रमणे सद्यो ममाभूदीदृशं फलम् ॥ ४७७ ॥ इति श्लोकं पठित्वाऽसौ तं मयूरं यथास्थितम् । समर्प्य सिंहमापृच्छय प्रसन्नास्यस्ततोऽचलत् ॥ ४७८ ॥ सवैलक्ष्यं स सिंहेन बोधितोऽपि न स स्थितः । प्रत्यक्षदृष्टदोषाणां करोत्यनुनयः किमु ॥४७९ ॥ गच्छंश्च चिन्तयामास धिगेषां दुष्टचेष्टितम् । किम्पाकवृक्षच्छायैव दुरन्ता खलसङ्गतिः॥४८०॥