________________
१९२ श्रीपार्श्वनाथचरिते
भस्माहुनमिवाऽमीषु तत् तथोपकृतं मया । सर्वमेकपदे नष्टं भव्यं वा जीवितोऽस्मि यत् ॥ ४८१ ॥ नृणां मृत्युरपि श्रेयान् पण्डितेन सह ध्रुवम् । न राज्यमपि मूर्खेण लोकद्वयविनाशिना ॥ ४८२ ॥
किञ्च,
शिरसा सुमनःसङ्गाद् धार्यते तन्तवोऽपि हि । तेऽपि पादेन मृद्यन्ते पटेषु मलसङ्गताः ॥ ४८३ ॥ स्वामि मित्र-कलत्राणामधमानां परीक्षणम् । कृतं तावदिदानीं तु करिष्यामि पितुर्वचः ।। ४८४ ॥ इति गच्छंस्ततः प्राप सुन्दरं नगरं क्रमात् । तत्र हेमरथो राजा तत्पुत्रो गुणसुन्दरः ॥ ४८५ ॥ त्यक्तकुव्यसनासङ्गः कृतज्ञः कोविदपियः । जनानुरागसुभगो लघीयानपि विश्रुतः ॥ ४८६ ॥ बहिः खलूरिकायां तं शस्त्राभ्यासरतं सदा । दृष्ट्वा हृष्टोऽन्तिके गत्वा चोपतस्थे प्रभाकरः ॥ ४८७ ॥ कुमारोऽपि तमालप्य श्रमान्ते स्वच्छया गिरा । भोज्यागमे सह स्वेन भोजयामास गौरवात् ॥ ४८८ ॥ यतःप्रसन्ना दृग् मनः शुद्धं ललिता वाग् नतं शिरः । सहसाऽर्थिष्वियं पूजा विनापि विभवं सताम् ।। ४८९।। पप्रच्छ च कुमारस्तं मित्र ! कस्ते मनोरथः । सोऽप्युवाच महाभाग ! तवाऽवस्थातुमन्तिके ।। ४९० ॥ तर्हि स्वच्छमनास्तिष्ठेत्युक्ते नृपतिसूनुना। तस्थौ प्रभाकरस्तत्र हृष्टो दध्यौ स्वचेतसि ॥ ४९१ ॥ अस्याहो ! विशदा मूर्तिर्मितं च मधुरं वचः । नव्यमौचित्यचातुर्य कटरे ! स्वच्छतात्मनः ॥४९२॥ १ श्रमस्थानम् । २ अद्भुतार्थमव्ययमेतत् ।