________________
तृतीयः सर्गः।
१९३ बाल्येऽपि मधुराः केऽपि द्राक्षावत् केऽपि चूतवत् । विपाकेन कदापीन्द्रवारुणीफलवत् परे ।। ४९३ ।। आकृतौ हि गुणा नूनं सत्यीभूतमिदं वचः। अमुष्य दर्शनेनाऽपि सफलो मे श्रमोऽजनि ॥ ४९४ ॥ तदस्य सङ्गमात् प्राच्यमघं कुस्वामिसङ्गजम् । अधुना क्षालयिष्यामीति निश्चित्य तथाऽकरोत् ।।४९५॥ उत्तमप्रकृतिः स्थैर्य-गाम्भीर्य-विनयान्विता । श्रीरभूत् गृहिणी तस्य कुमाराऽर्पितवेश्मनः ॥ ४९६ ।। महेभ्यः स्वजनाधारः परोपकरणे रतः । पौरमुख्यो वसन्ताख्यस्तस्य मित्रमजायत ।। ४९७ ॥ विपन्ने राज्ञि कालेऽथ राजाऽभूद् गुणसुन्दरः । प्रभाकरः पुनमन्त्री सर्वकार्येषु यत् कृती ॥४९८॥ अन्यदा शासतस्तस्य प्रजा नीत्या प्रजापतेः । ढोकनीये कृतौ हेडावितैर्जात्यतुरङ्गमौ ॥४९९॥ सल्लक्षणधरौ किन्तु वैपरीत्येन शिक्षितौ । तत्स्वरूपमजानानस्तावत् पर्याणयद् नृपः ॥ ५०० ॥ एकस्मिन् स्वयमारूढो द्वितीयेऽमात्यमादिशत् । जग्मतुः सपरीवारौ शनैकैस्तौ पुराद् बहिः ।। ५०१ ॥ वाहयित्वा क्षणं वाही वाह्याल्यां वेगमीक्षितुम् । कशाघातं नृपा-ऽमात्यौ कर्कशं चक्रतुस्तयोः ।। ५०२ ॥ सहसोत्प्लुत्य तौ तस्मादलिदष्टौ कपी इव । प्रवृत्ती वेगतो गन्तुं प्रमातुमिव मेदिनीम् ॥ ५०३ ॥ यात यात द्रुतं भृत्याः ! शीघ्रं धावत साँदिनः!। दिव्येनेवैष केनाऽपि हयेन ह्रियते नृपः॥ ५०४ ॥ पूत्कुर्वतो जनस्यैवं धावतामपि सादिनाम् । पापाद् निधिरिवाऽदृष्टः सामात्योऽभूद् नृपः क्षणात्॥५०५।। । सेवया, इत्यपि। २ शनैरित्यर्थः। ३ धावत, एतदपि ।
२५