________________
१९४ श्रीपार्श्वनाथचरिते
यथा यथा नृपा-मात्यौ वल्गामाकर्षतो हठात् । तथा तथा चटद्वेगं गच्छतस्तौ तुरङ्गमौ ।। ५०६॥ संप्राप्तयोर्महाटव्यामामलक्यास्तरोरधः।। गच्छतैव करेणात्तं मन्त्रिणाऽऽमलकत्रयम् ॥ ५०७ ।। अतिदूरं गतौ यावद् विलक्षीभूय तौ श्रमात् । वल्गां मुमुचतुस्तावदश्वौ तत्रैव संस्थितौ ॥ ५०८ ॥ उत्तीर्णौ च नृपा-मात्यौ प्राणैर्मुक्तौ च वाजिनौ । किमताभ्यां निजस्वामिद्रोहकाभ्यामिवाथ तौ ? ।। ५०९ ॥ तयोः खेदं क्षणं धृत्वा परदुःखाऽसुखी नृपः। क्षुत्-तृष्णापीडितो बाढं मनस्येवं व्यभावयत् ॥ ५१० ॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढः पाषाणखण्डेषु रत्नसंज्ञाऽभिधीयते ॥ ५११ ॥ ध्रुवं सत्यमिदं वाक्यं यत् पर्याणे तनौ च मे । सत्स्वप्येतेषु रत्नेषु तृष्णा शाम्यति नाधुना ।। ५१२ ॥ उवाच च महामात्य ! तृषां यान्ति ममाऽसंवः । मन्त्र्युवाचाऽऽकुलो देव ! मा भू रक्षामि ते तृषाम् ॥५१३॥ एकमामलकं मन्त्री ददौ त्रिभ्यो महाभुजे । निर्वृत्तात्मा तदाहारात् तस्थौ स्वस्थः क्षणं नृपः ॥५१४॥ भूयस्तापार्दितः प्राह मित्र ! पृष्टोऽसि सम्पति । तथा मां बाधते तृष्णा यथा नूनं न जीव्यते ॥ ५१५॥ इति मूर्छागतो भूमौ पतन् धृत्वाऽशु मन्त्रिणा । द्वितीयामलकं दत्त्वा पुनः सज्जीकृतो नृपः॥ ५१६ ॥ एवं तृतीयवेलायामप्यामलकमर्पितम् । पदानुलग्नं दैवाच्च पृष्टे सैन्यमथाऽगमत् ॥ ५१७ ॥ अग्रेसराश्ववारैस्तौ दृष्ट्वा चक्रे जयध्वनिः। मन्त्रिणोचे भटास्तावद् नीरमानीयतां द्रुतम् ॥ ५१८॥ १ तृतीयान्तम् । २ प्राणाः।