SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पष्ठः सर्गः। २८१ सरोऽल्पदं प्रधिर्दुर्गोऽपेयोऽम्भोधिर्नदीवरी । घनस्तु घनदस्तेन विश्वोपरि जिनस्तथा ॥ ८९ ॥ तदानेनार्थिनः पुष्टा रणद्भिः स्वर्णभूषणैः । कुर्वन्तीव गृहे दौस्थ्यनिर्वासपटहध्वनिम् ॥ ९० ॥ एका कोटी हिरण्यस्य लक्षाण्यष्टौ च स प्रभुः । ददौ प्रतिदिनं सूर्योदयादाभोजनक्षणम् ॥ ९१ ॥ त्रीणि कोटिशतान्यष्टाशीतिश्च स्वर्णकोटयः। अष्टाशीतिश्च वर्षेण सर्वदाने विभोरभूत् ।। ९२ ॥ अथेयुर्वासवाः सर्वे ज्ञातदीक्षाक्षणा विभोः। ते चाऽश्वसेनशेषाश्च पार्थिवा एकतोऽमिलन् ॥ ९३ ॥ सर्वेऽनुज्ञाप्य ते दीक्षाभिषेकाय नता विभुम् । तीर्थाम्भःसंभृतैः कुम्भैरुत्सवात् तमसिष्णपन् ॥ ९४ ॥ हरिचन्दनकर्पूरलिप्ताङ्गो दिव्यचीरभृत् । पारिजातादिपुष्पौघस्फारधम्मिलबन्धुरः ॥ ९५ ॥ हार-कुण्डल-कोटीर-कङ्कणा-ऽङ्गदभूषणैः । शक्रेण भूषितो भक्त्या रेजे कल्पद्रुवद् विभुः ॥ ९६ ॥ (युग्मम् ) अथाऽऽरोहनरा-ऽमत्र्यैरुद्वाह्यां शक्रसूत्रिताम् । ... विशालां शिबिकां स्वामी चित्तवृत्ति सतामिव ॥ ९७ ॥ तत्रासनमलंचक्रे स पूर्वादिमिवार्यमा । अभातां चामरे तस्य पक्षयोर्यशसी इव ।। ९८ ॥ रेजे तस्योपरि च्छवं सुवृत्तोज्ज्वलमुल्लसत् । खस्वरूपमिव ब्रह्मद्वारोपरि परिस्फुरत् ॥ ९९ ।। वाद्यमानेषु वाद्येषु पठत्सु पटु बन्दिषु । जयारवे प्र#मरे सङ्गीते विविध सति ॥ १०० ।। काशिमध्येन सोत्कण्ठं वीक्ष्यमाणः पुरीजनैः। १ कूपः । २ इत्वरी गमनशीला । ३ प्रसरणशीले ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy