________________
२८२
श्रीपार्श्वनाथचरितेनम्यमानोऽञ्जलिप्रडं स्तूयमानः सहाशिषा ॥ १०१ ॥ तद्भक्तिं श्रीवरः स्वामी प्रतीच्छन् सनराऽमरः । मुदाऽगादाश्रमपदमुद्दोढुं संयमश्रियम् ॥ १०२ ॥
(विशेषकम् ) यत्र स्वाम्यागमात् तुष्टा इवाऽशोका-ऽऽम्र-जम्बवः । एला-लवङ्ग-कक्कोल-पूगाद्या विलसन्त्यगाः ॥ १०३ ॥ कदली-लवली-द्राक्षा-नागवल्ली-प्रियङ्गवः । वासन्त्याद्या लताः कम्पैर्नृत्यन्तीवाप्रपल्लवैः ॥ १०४ ।। मालती-यूथिका-मल्ली-केतकी-शतपत्रिकाः। चम्पकाद्या हसन्तीव विकाशिकुसुमच्छलात् ।। १०५॥ शिविकातः समुत्तीर्य तत्राऽशोकतरोस्तले । स्वाम्यमुश्चत् क्षमैश्वर्य-स्वर्ण-रत्नपरिग्रहम् ॥ १०६॥ क्षमा सहिष्णुतामेव सुवर्ण समतां पुनः। ज्ञानादीन्येव रत्नान्यन्तरङ्गत्वेन सोऽग्रहीत् ॥ १०७॥ त्रिंशद्वर्षः प्रभुः खांशे दृष्यं शक्राहितं दधत् । पौषस्य कृष्णैकादश्यां विशाखाभे कृताष्टमः ॥ १०८ ॥ केशानुन्मूल्य सिद्धांश्च नत्वा चारित्रमग्रहीत् । द्राग मनःपर्ययज्ञानं चापद् दीक्षासहोद्भवम् ॥ १०९ ॥
(युग्मम् ) पञ्चमुष्टयुद्धृतान् केशान् विभोरिन्द्रः स्ववाससा । प्रतीष्य गत्वा चिक्षेपाक्षेपेण क्षीरसागरे ॥ ११० ॥ तदा च राजपुत्राणां प्रभोर्मेव्यमुपेयुषाम् । शतैस्त्रिभिरुपादत्त संवेगातिशयाद् व्रतम् ॥ १११ ॥ इति श्रीपार्श्वनाथस्य शुभभावकृतस्तवाः । स्वस्वस्थानं ययुः सर्वे सुरा-ऽसुर-नरेश्वराः ।। ११२ ॥ तदा तत्रैव भगवाल्लॅम्बमानभुजद्वयः। कायोत्सर्गेण कर्माऽम्भोभ्रंशनायेव तस्थिवान् ॥ ११३ ॥