SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । द्वितीयेऽह्नि गतः कोपकटाख्ये सन्निवेशने । पारणायाविशन्नाथो धनस्य गृहिणी गृहे ।। ११४ ॥ तदा सार्थाभिर्धमन्यो धन्यो गेहाङ्गणस्थितम् । कल्पद्रुमित्र तं वीक्ष्य सहसाऽभून्मदोत्सुकः ॥ ११५ ॥ सद्यो जातविवेकश्च तं नत्वा पायसेन सः । शुद्धेन शुद्धधर्नाथं कारयामास पारणम् ॥ ११६ ॥ अहो ! दानमहो ! दानमित्युद्धोपपरैर्दिवि । ताडितो दुन्दुभिर्देवैः स्वर्णवृष्टिः कृता ततः ।। ११७ ॥ नानापुष्पैः प्रकीर्णा भूः सिक्ता गन्धाम्बुदृष्टिभिः । चेलोत्क्षेपश्च तैश्चक्रे धन्यस्याऽहो ! सुधन्यता ॥ ११८ ॥ धन्यः पुण्येन गेहं च सुवर्णेन जनो मुदा । गगनं दुन्दुभिध्वानैः पूर्ण नाथस्य पारणे ।। ११९ ॥ धन्यो बहुमतो राज्ञा लोकैरे त्याऽभिनन्दितः । स प्रभोः पारणस्थाने पादपीठं मुदा व्यधात् ॥ १२० ॥ विचचार ततः स्वामी ग्रामा-कर- पुरादिषु । मोहेनैव सवैरत्वाद् मौनी नैकत्र च स्थितः ॥ १२१ ॥ सर्वसहो धरित्री शारदाऽम्भ इवामलः । वह्निवत् तेजसा दीप्रोऽप्रतिबद्धश्च वायुवत् ॥ १२२ ॥ आकाशवन्निरालम्बः पृथ्व्याद्यैरपि पञ्चभिः । दत्तात्मगुणसारत्वादिव सोऽभूज्जगन्मतः ।। १२३ ॥ मेदिनीं पावयन्नाथो द्विधाऽपि चरणक्रमात् । निर्लेपः पद्मवत् कस्य हृदि वासं न स व्यधात् १ ॥ १२४ ॥ अटव्यामन्यदा कादम्ब कलिगिरेरधः । कुण्डाख्यसरसस्तीरे स्थितः प्रतिमया विभुः ।। १२५ ॥ तस्मिन् महीधरो नाम जलपानाऽऽगतः करी । ईहापन्नः प्रभुं दृष्ट्वा जातिस्मरणमासदत् ॥ १२६ ॥ सदध्यौ च यथा प्राच्यभवेऽहं हेमलाभिधः । २८३
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy