SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीपार्श्वनाथचरितेवामनाङ्गो जने हास्यभूरासं कुलपुत्रकः ॥ १२७ ।। पितुः परिभवेऽन्येाहानिर्गत्य बम्भ्रमत् । सुप्रतिष्ठाख्यमित्रेण नीतोऽहं गुरुसन्निधौ ॥ १२८ ॥ गुरुणा च यतित्वस्याऽयोग्यत्वात् श्रावकवतम् । ग्राहितोऽहं परं लोकैहोस्यमानोतिखिन्नवान् ।। १२९ ॥ तल्लघु स्वां तनुं निन्दन्नभिनन्दन् महातनुम् । मृत्वाऽऽर्तध्यानतोऽभूक्मेष शैलोपमः करी ॥ १३० ॥ तदिदानी पशुः कुर्वे किं किं वाऽऽराधयाम्यहम् । अथवा किं वितर्केणाऽमुमेव प्रभुमर्चये ? ॥ १३१ ॥ इति ध्यात्वा प्रविश्यान्तःसरः स्नात्वा च दन्तिराट् । आदाय चारु पनानि पार्ये पार्थप्रभार्ययौ ॥ १३२ ॥ स त्रिःप्रदक्षिणीकृत्य प्रभुं पद्मः पदद्वयम् ।। पूजयित्वा च नत्वा च यथास्थानं गतः करी ॥ १३३ ॥ अथागत्य यथासन्ना देवाः सद्गन्धवस्तुभिः । पूजयित्वा विभुं नाट्यविधि विदधिरे मुदा ।। १३४ ॥ सर्व गत्वा च चम्पायां तत्प्रदेशवनेचराः । करकण्डुनरेन्द्रस्य तत् स्वरूपं न्यवेदयन् ॥ १३५ ॥ विस्मितश्च नरेन्द्रोऽसौ सद्यः सबलवाहनः । वन्दितुं प्रभुमभ्यागात् प्रभुस्त्वग्रेऽन्यतो ययौ ॥ १३६ ॥ तत्र च प्रतिमा भर्तुर्नवहस्ता विनिर्मिता । सुरैर्दिव्या, महाभक्त्या सा नरेन्द्रेण पूजिता ॥ १३७ ।। कारयित्वा च तत्रोरु चैत्यं तस्मिन्निवेशिता । साऽधिष्ठायकभावेन सप्रभावाऽभवद् भृशम् ।। १३८ ।। दूरदेशान्तरादागाजनस्तां मूर्तिमर्चितुम् । साऽपि दत्ते मनोऽभीष्टमनिष्टं हरते नृणाम् ॥ १३९ ॥ कलेः कुण्डस्य चासन्नभावित्वादगमजने । कलिकुण्ड इति ख्यातं तत् तीर्थ विश्वपावनम् ॥ १४०॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy