________________
श्रीपार्श्वनाथचरिते
जगद्रोहकमोहस्य त्वमेव शमने क्षमः ।
तत् त्रैलोक्योपकाराय प्रभो ! तीर्थं प्रवर्तय ॥ ७६ ॥ आ गर्भवासात् त्रिज्ञानः स्वयं विश्वपते ! वयम् | इदं ब्रूमोsधिकारित्वादित्युक्त्वा ते ययुर्दिवम् ॥ ७७ ৷ ततः सायं गतः सौंधं विसृज्य सुहृदः प्रभुः । पल्यङ्कस्थो निशां निन्ये भावयन्निति भावनाम् ॥ ७८ ॥ किं न भुक्तं च मुक्तं च भवे सौख्यं शरीरिणाम् । तदपूर्वस्य कस्यार्थे भूयोऽप्यायासमेत्यसौ ॥ ७९ ॥ किं कस्यापि कृते किञ्चिद् भुवने वस्तु विद्यते १ । aayad काले स्वयमेव विपद्यते ॥ ८० ॥ तदेवं सति को मोहो देहिनां यदिदं मम । गते च तत्र कः खेदो यदिदं मे गतं मृतम् ? ॥ ८१ ॥ ममतामालया चद्धः कोऽरघट्टघटीव न ? | करोति भवकूपेऽस्मिनेहिरेयाहिरां क्रियाम् ॥ ८२ ॥ हा ! मुक्त्वा ध्रुवमज्ञानादध्रुवेऽप्यलगज्जनः । तदात्मानं स्थिरज्ञानं कृत्वा लोकं प्रबोधये ॥ ८३ ॥ इत्यादि ध्यायतो मोह इव पर्यगलन्निशा । प्रबोध इव चादित्यो विश्वोद्योतार्थमुद्गतः ॥ ८४ ॥ कृत्वा प्रभातकृत्यानि गत्वा पित्रोव सन्निधौ । तौ संबोध्य स्वदीक्षायै दानमारभत प्रभुः ।। ८५ । यथेच्छं गृह्यतामित्याघोष्याऽऽवर्षं प्रयच्छतः । दानं विभोर भूदिन्द्रादिष्टः श्रीदः स्वेपूरकः ॥ ८६ ॥ स्वर्ण पार्श्व वित्ताम्बु वर्षति ।
वृद्धा कीत्यपिगा विष्वक् पूर्णान्यर्थिसरांसि च ॥ ८७ ॥ दारिद्र्यमयदावाग्निः शशाम जगतोऽखिलः । परमानन्दकन्दाश्च सद्यः कन्दलिता भुवि ॥ ॥ ८८ ॥ १ एहि रे ! याहि रे ! यस्यां क्रियायां सा एहिरेयाहिरा, ताम् । २ धनपूरकः ।
२८०