________________
षष्ठः सर्गः। . २७९ महर्द्धिर्धरणो नाम रेजे नागसुरेषु सः । जयी विश्वे नमस्कारः स्याद् मृतोऽप्यमरो यतः ॥ ६३ ॥ अहो ! म्रर्तिः कट ! ज्ञानं दया काऽप्यस्य साधुवाक् । स्तूयमानो जनैरेवं ययौ स्वभवनं विभुः ॥ ६४ ॥ अथ कष्टतरं बालस्तपस्तेपे कठो हठात् ।। कष्टं हि सुकरं पुंसां विवेकोऽतिसुदुर्लभः ॥ ६५ ॥ विवेको ज्ञानरूपस्तत् तत्पभावाच्छुभं कृतम् । तन्वपि प्राज्यपुण्याय तं विना नतु बह्वपि ।। ६६ ॥ लभतेऽल्पं धनं स्थूलग्रावोद्धारेऽपि कर्मकृत् । तद् बहु स्वल्पभारेणाऽप्यर्जयेद् रत्नकोविदः ॥ ६७ ॥ मृत्वा मेघकुमारेषु कठो भवनवासिषु । असुरो मेघमालीति नामतः समजायत ॥ ६८ ॥ श्रीपार्थो भोगसौख्यानि भुञ्जानोऽन्येारागते । मधौ जनोपराधेन ययावुद्यानमीक्षितुम् ॥ ६९ ॥ स तत्रोद्यानपालेन दर्शमानलताद्रुमः ।। निध्यायन् पुष्पावचयजलक्रीडादिकृजनम् ॥ ७० ॥ क्रमेणोद्यानमध्यस्थं प्रासादं प्राविशद् विभुः। तद्भित्तौ नेमिचरितचित्रं चैक्षत नीलरुक् ॥ ७१ ॥ राज्य-राजीमतीत्यागं विधायाश्रितसंयमम् । दृष्ट्वा नेमि विरक्तोऽसौ सुतरामित्यचिन्तयत् ।। ७२ ॥ विवेकः कोऽप्यहो ! श्रीमन्नेमेरनुपमः खलु । नवे वयसि निःसङ्गो य एवं व्रतमग्रहीत् ॥ ७३ ॥ सर्वथा त्याज्य एवाऽयं संसार इति चिन्तयन् । बभूव भगवान् भुक्तभोगकर्मा व्रतोन्मुखः ॥ ७४ ॥ तदा च तं सपद्येव सुराः सारखतादयः । लोकान्तिका ब्रह्मलोकादेत्य नत्वा व्यजिज्ञपन् ॥ ७५ ॥ १ पश्यनू ।