________________
२०४
श्रीपार्श्वनाथचरिते
सग्रामाऽश्वेभकोशा भूर्दत्ता तेऽम्बुधिमेखला ॥ ६३४ ।। प्रणम्य मुनिमगारमुखः प्राह कृताञ्जलिः । राजा यदभिधत्ते तद् भगवन् ! प्रतिपद्यताम् ॥६३५।। अथाऽपसार्य राजानमूचतुः सुहृदौ मृदु । अकाण्डे कोऽयमुत्पातो राजन् ! विमृश मा मुहः ? ॥६३६॥ राजाऽवज्ञाय तद्वाचमूचे संप्रश्रयं मुनिम् । यदुक्तं भगवन्नस्तु गृहाण वसुधामिमाम् ॥६३७॥ क्षामाक्षरं मुनिः प्राह दत्ताऽस्मभ्यं मही त्वया । नाईस्यतः परं पृथ्व्या भोगमामिति सोऽब्रवीत् ।।६३८॥ तदा तत्रागतं वाराणसीतः शिष्यमात्मनः । मुनि कौटिल्यनामानमाहवत् स तापसः ।। ६३९ ।। हरिश्चन्द्रेण मे पृथ्वी दत्ता जलधिमेखला । इत्यर्थे खलु साक्षी त्वमिति तं मुनिरादिशत् ॥६४०॥ कौटिल्योऽप्यवदद् राजन्नत्रार्थे साक्षिणो वयम् । ओमित्युक्ते नृपेणाऽगात् स स्वं स्थानं मुदा नृपः॥६४१॥ अथ व्यजिज्ञपत् कोऽपि शिष्यो यावदियं मृगी। तिष्ठेत् तावद् विपन्ना न पाठस्तत् क्रियतां किमु ?॥६४२॥ सखेदं मुनिरूचेऽस्याः कारयाऽनलसंस्कृतिम् । वश्चनाऽऽह मया साधमस्याः स्यादग्निसंस्कृतिः ॥६४३॥ राजा तां विनयादूचे ममैकं दुर्नयं सह । अहं तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् ।। ६४४ ॥ कष्टादिव तयाऽप्योमित्युक्ते प्राह मुनिस्ततः। दीयतां तर्हि हेमाऽस्यै राजा पाहैत मत्पुरे ।। ६४५ ॥ प्रातः सन्ध्याविधि कृत्वा पश्यैते वयमागताः । इत्याकर्ण्य मुनि राजाऽवोचत् तयधुना वयम् ।। ६४६ ।। इक्ष्वाकुवंशभूपालगुरुं श्रीनाभिसंभवम् । १ सानन्दम् । २ एत आगच्छत ।