________________
तृतीयः सर्गः ।
२०३ परेषां दण्डमाधातुपलमेषोऽस्मि नात्मनः १॥ ६२१ ॥ ससंरम्भं च सौत्सुक्यं मुनिः प्रोवाच नन्वहो ! । इयता स्यात् किमुक्तं यद् मया व्यापादिता मृगी ? ॥६२२॥ पश्चात्तापात् स्वमात्मानं प्रणिन्दति महीपतौ । पिधाय वल्कलेनास्यं पूचक्रेऽथ स मायिकः ॥ ६२३ ।। ऊचे च कुपितो भूपमाः ! पाप ! वहसि ध्रुवम् । कोदण्ड-शरधी हन्तुं ध्यानलीनांस्तपस्विनः ? ।। ६२४ ॥ निपत्य पादयो राजा विनयाद् मुनिमब्रवीत् । तमेकमपराधं मे क्षमस्व त्वं क्षमानिधे ! ॥ ६२५ ॥ मुनिः पराङ्मुखो भूत्वा चुक्रोश नृपमुच्चकैः । भरतान्वयचन्द्राङ्क ! व्रज ब्रज ममाश्रमात् ।। ६२६॥ युष्मादृशां निघृणानां श्रुता वागपि पाप्मने । किं पुनः कर्मचण्डाल ! वाचाल ! सङ्गमस्त्वया ॥६२७।। राजा सविनयं प्राह मुने ! ब्रूहि करोमि किम् ? । विशाम्यग्निं त्यजामि क्ष्मां चरामि व्रतमेव वा ॥ ६२८॥ सकोपं मुनिरप्यूचेऽद्यापि श्रावयसे गिरम् । मायाविन् ! हरिणीभ्रूणघातपातकपङ्किलाम् ?।। ६२९ ।। ततोऽङ्गारमुखोऽवादीत् प्रसादं ! कुरु मा रुषः । तपस्तेजोनिधे ! नायमपमानं नृपोऽर्हति ॥ ६३० ॥ किन्तु दुष्कर्मणोऽमुष्य पवित्रीकारकारणम् । शास्त्रानुपाति यत् किञ्चित् तदेवाऽऽशु समादिश ॥६३१॥ मुनिरूचेऽङ्गारमुख ! शुद्धिरस्य तदा भवेत् । सर्वस्वं यद्यसौ दत्ते दानं ह्यघनिवृत्तये ॥ ६३२ ॥ सोच्छ्रासं नृपतिः प्रोचे प्रसीद भगवन् ! मयि । . सर्वस्वं मे गृहाण त्वं विलयं यात्वघं मम ।। ६३३ ॥ किं न प्राप्तं मया त्रातः ! शुध्यामि यद् यतस्ततः । १ पापाय ।