SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०२ श्रीपार्श्वनाथचरितेइयं च निकृतिनूनमस्मत्सधर्मचारिणी। वत्सामनुसरन्त्येतद् ब्रूते किमसमञ्जसम् १ ॥ ६०९ ॥ ततोऽङ्गारमुखादाशु स तापस्यावजूहवत् ।। आजग्मतुरथो तारं ते रुदत्यावुभे अपि ॥ ६१० ॥ उवाच वञ्चनां मायी मुनिः किं पुत्रि ! रोदिषि ? । साऽह जानाति तातो यदस्ति क्रीडामृगी मम ॥६११।। सोऽप्याह या त्वया बाल्यात पोषिता स्वकरार्पितैः । नीवारकवलैस्तस्यास्ततः किमभवत् सुते ! ॥ ६१२ ॥ इत्युक्ते वञ्चना तारस्वरं रोदिति केवलम् । ततः प्रविश्य संभ्रान्तः शिष्यः कुलपतिं जगौ ॥६१३॥ भूररोजन्वती सेयमब्रह्मण्यमहो ! महत् । मृगयाव्यसनात् पापः कोऽप्यहन् गर्भिणी मृगीम् ॥६१४॥ सास्रं कुलपतिः प्रोचे हहा ! किं भाव्यतः परम् । यतस्तां निघ्नता तेनाऽऽनीतोऽस्माकं कुलक्षयः॥ ६१५ ॥ विना मृगी कथं जीवेद् वत्सा तज्जीविता ततः। न प्राणिति विना पुत्रीमस्मत्पाणपिया खलु ॥६१६॥ विना सधर्मचारिण्या कुतो मे तपसां विधिः । तपोविधि विना मे स्याद् ऋषित्वमनघं नहि ॥ ६१७ ॥ राजनिक्ष्वाकुराजेन्द्र ! कौतस्त्योऽयं तपस्विनाम् । इत्थमाकस्मिकः शोकशङ्कुस्त्वय्यपि भूपतौ ? ॥ ६१८ ॥ ततः कुतोऽपि तं ज्ञात्वा साधुबाधाकरं परम् । श्वपाकं शांधि येन त्वं लोकपालोऽसि पश्चमः ॥ ६१९ ॥ वञ्चना त्वाह मां तात ! चितामारोदुमादिश । किं न वेत्सि ममैथ्या हि मरणं क्रकचायते ॥ ६२० ॥ सविषादं नृपः प्रोचे मुने ! कुर्वेऽहमत्र किम् । १ न्यायिनृपरहिता । २ शिक्षय।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy