________________
२०१
तृतीयः सर्गः।। धन्यास्ते मुनयो हित्वा महासंसारकश्मलम् । निष्पङ्के संवृतात्मानो मोक्षमार्गे चरन्ति ये ॥ ५९६ ॥ तद् गच्छाम्याश्रमं पुण्यं यत्र सन्ति तपोधनाः । इयतः कल्मषात् शुद्धिः कथं मे भविताऽन्यथा ? ॥५९७।। इति राज्याद् विरक्तात्मा पादचारेण भूपतिः। अजित्वा सह मित्राभ्यां विवेश द्रुतमाश्रमम् ॥ ५९८ ॥ दृष्ट्वा कुलपति तत्र ननाम मुदितो नृपः । पृष्ठे पाणिं निधायाऽस्य मुनिरप्याशिषं ददौ ।। ५९९ ॥ क्षतात् त्राणेन लोकानां स्वस्य क्षत्र इति प्रथाम् । कुर्वाणः सार्थिकां पुण्यैः प्रवर्धस्व सदा नृप ! ॥ ६०० ॥ राजा पप्रच्छ भगवन् ! ज्ञान-ध्यान-तपांसि वः। निर्वहन्त्यहतं कचित् कुशलं मृग-भूरुहाम् ॥६०१ ॥ मुनिरूचे महाराज ! भरतान्वयभूषण !।। त्वयि प्रशासति क्षोणी कुतोऽस्माकमुपद्रवः ? ॥६०२ ॥ मही राजन्वती तेजः प्रबलं विमलं यशः। वर्णाश्रम ! महीरक्षा दक्षा वृत्तिस्तवाऽखिला ॥ ६०३ ॥ अस्मिन्नवसरे काऽपि जातः कोलाहलो महान् । किमेतदिति संभ्रान्तौ मुनि-भूपौ बभूवतुः १ ॥ ६०४ ॥ अब्रह्मण्यमब्रह्मण्यमिति च व्याकुलं वचः । श्रुत्वा कुलपतिः शिष्यं तं ज्ञातुं प्राहिणोद् द्रुतम् ॥६०५॥ पुनरार्तस्वरो जज्ञे स्त्रीणां शोकस्पृशामिति । मातश्चेद् में मृगी मर्ता करिष्येऽनशनं तदा ॥ ६०६ ॥ माताऽपि प्राह चेद् वत्सेऽनशनं त्वं करिष्यास । तदाहमपि कर्तास्मि विना त्वां जीवितेन किम् ? ॥ ६०७ ॥ श्रुत्वा कुलपतिश्चैतद् हृदयं स्फोटयद् वचः । किं नः प्राणप्रिया पुत्री वञ्चनाऽनशनीयति ? ॥ ६०८ ॥ १ कृत्वा, इदमपि । २ अनशनमिच्छति ।
२६