SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०० श्रीपार्श्वनाथचरितेकुर्वाणोऽपि नृपं क्रोधाद् दधावे वनगहरात् ।। ५८३ ॥ लघुहस्तस्ततो राजा जानुलम्बभुजोऽपि हि । रोमाञ्चकवचं बिभ्रद् निर्भयोऽपि भृशं तनौ ॥ ५८४ ॥ करे चापमलंकृत्य पूरयंस्तद्वपुः शरैः । वराहं पातयामास पूरयामास संश्रयम् ॥ ५८५ ॥ (युग्मम् ) ततः कपिञ्जलं प्राह राजा पश्याग्रतः कियत् । लक्षमेतञ्चलं भिन्नं सोऽप्युपेत्य तथाऽकरोत् ॥५८६॥ खेनैत्य पश्य मित्रेति प्रोक्तस्तेन नृपो द्रुतम् । ददर्श रुधिराई तं मलद्दवमिवाचलम् ।।५८७॥ उवाच च यथास्यैवमतैरिश्चीयमाकृतिः । तथा मन्ये वराहेण भाव्यं दिव्येन केनचित् ॥५८८॥ कपिञ्जलोऽवदद् देव ! द्वीपी चाऽयं हतः पुरा । राजाऽह पुनरयं किं विलोक्याह कपिञ्जलः ॥५८९।। इदमज्ञातमेवाऽस्तु राजा प्राह तथापि किम् । कुन्तलोऽप्याह किं ज्ञातेनाऽमुना देव ! चल्यताम् ।।५९०॥ उपसृत्य स्वयं राजा लुठद्गर्भी मृगी हताम् । वीक्ष्य प्राह विषण्णः सनकृत्याचरणं हहा ! ॥५९१॥ न्यायः कोऽयमशस्त्रो यद् दधानो वदने तृणम् । इत्थं निःशरणो दीनो हन्यते सुभटैः पशुः ? ॥५९२॥ धिर धिग् मां हरिणीभ्रूणघातकं गुरुपातकम् । घिगिमा मेऽखिलक्षोणीकरातिजनिताः श्रियः ॥५९३॥ विकलाक्षत्वकृत् पश्चेन्द्रियाणामपि या नृणाम् । कृत्याकृत्यमतिं या च मदिरेव विलुम्पति ॥५९४॥ कुलटेव न यैकत्राऽवस्थाना तामपि श्रियम् । इच्छवो मार्गमुज्झन्ति मुनिभिः श्लाघितं जडाः ॥ ५९५॥ १ प्रतिज्ञाम् । २ क्षतेन्द्रियकारिणी।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy