________________
तृतीयः सर्गः ।
१९९
पुनः पुनस्तदीयार्थ मुदा हृदि विभावयन् ।। ५७० ॥ कृत्वा प्राभातिकं राजा यावदास्थानमाययौ । तावत् कोsपि नरोऽभ्येत्य संभ्रान्त इदमूचिवान् । ५७१ ।। महाराज ! हरिश्चन्द्र ! त्वयि शासति मेदनीम् ।
न श्रुतावपि लोकानां भयमित्यक्षरद्वयम् ||५७२ ।। किन्त्वेकः : शूकरः शकावतारवनमध्यगान् । कुतोऽप्यागत्य भीष्माङ्गो भञ्जन्नास्ते लताद्रुमान् ॥५७३ ॥ तापसाश्चाभवंस्तत्र सर्वे भयविसंस्थुलाः ।
ततो दध्यौ नृपोऽमीषां किमभूद् हा ! तपस्विनाम् १ ॥ ५७४ ॥ यथा लोकः करं दत्ते स्वधनस्यावनिपतेः । मुनयोऽपि तथा धर्मषष्ठभागमिति श्रुतिः ।। ५७५ ।। ततो रक्ष्या मयैवेते ध्यात्वेत्युत्थाय संभ्रमात् । अब्रवीदहहा ! कोऽयं मयि सत्यप्युपप्लवः ।। ५७६ ।। श्रीमन्नाभे यदेवस्यारामशत्रुं मुनिद्रुहम् । तमद्य शूकरं हन्मि प्रतिज्ञां चाकरोदिति ॥ ५७७ ॥ अथो यथागतं कापि बराहावेदके गते । प्रतिचैवमित्र प्रोच्चै राजाऽऽरोहत् तुरङ्गमम् ॥ ५७८ ॥ सैन्यं संनह्यदेवाऽसौ विमुच्य स्वयमेव तम् । निग्रहीतुमनाः क्रीडं त्वरितं निर्ययौ पुरात् ॥ ५७९ ॥ मनोवेगेन यात्यश्वे भूपतिः प्राप तत्क्षणात् ।
वनं शक्रावताराख्यं मुदेवाऽभिमुखागतम् ॥ ५८० ॥। अपश्यत् स्मेराब्जमुखीं कलहंसकमण्डिताम् । मृदुवीचीभुजां तत्र शरयूमुदधिप्रियाम् ।। ५८१ ॥ राजा पप्रच्छ पार्श्वस्थौ स कपिञ्जल- कुन्तलौ । अहो ! काsसौ वराहस्तावूचतुर्नन्वयं पुरः १ ॥ ५८२ ।। वराहस्तद्वचः श्रुत्वा घुघुराऽऽरवमुच्चकैः । १ कर्णेsपि । २ प्रतिज्ञामिव । ३ वराहम् ।
3