SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९८ श्रीपार्श्वनाथचरितेप्रक्षीणोऽपि तथा भूयो नरः सत्त्वाद् विवर्धते ॥५५८॥ यद् दूरं यद् दूसराध्यं दुर्घटं दुर्लभं च यत् । सर्व सिध्यति तत् सत्त्वात् तद्विना तु सदप्यसत् ॥५५९।। श्रूयते हि पुरा लोके श्रीमदिक्ष्वाकुवंशभूः । उदारचरितः सत्त्वे हरिश्चन्द्रो महान् नृपः ॥५६०।। तथाहिअस्त्यत्र भरतेऽयोध्या पुरी वप्रांशुकोज्ज्वला । प्रासादमण्डना नान्यैरभिभूता सतीव या ॥५६१।। सूर्यवंशभवक्ष्मापवृत्तोज्ज्वलयशःश्रिया । जातच्छत्रा महैश्वर्यं दधाति नगरीषु या ॥५६२॥ नतिरेवोन्नतिर्येषां दानमेव धनार्जनम् । परार्थ एव तु स्वार्थः क्षमैव हि समर्थता ॥५६३।। एवंविधनरोत्तंसै वृक्षरुद्यानभूरिव ।। या सदालंकृता हर्ष न केषां कुरुतेतराम् ? ॥५६४।। (युग्मम् ) एकनक्षत्रमालेन्दुस्त्रीणां हारमुखेन्दुभिः । प्रतिबिम्बच्छलाद् व्योम यया सौधेष्वधःकृतम् ।।५६५।। बभूव नृपतिस्तस्यां हरिश्चन्द्रो महाभुजः । धर्मेणोद्वाहिता कीर्तिर्येनते' करपीडनम् ।।५६६॥ तथा नीतिगवी तेन पोषिता सुकृतात्मना । विश्वप्रीत्यै यथाऽद्यापि यशो दुग्धं तदुद्भवम् ।।५६७।। अन्यदा रात्रिपर्यन्ते पल्यङ्कस्थः स वन्दिना । पठ्यमानमिमं श्लोकं सत्त्वोत्तेजनमाशृणोत् ।।५६८॥ विपद्यपि गतः सत्त्वाद् ध्रुवं स्यात् संपदां पदम् । गतोऽप्यस्तं रविर्मार्गादच्युतोऽभ्युदयी पुनः ॥५६९।। इमं श्रुत्वा पठन्नेव समुत्तस्थौ महीपतिः । १ ऋते विना।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy