________________
तृतीयः सर्गः।
१९७ तदा काहं क राज्यं च क सुतः क परिच्छदः ? ॥५४५।। मन्त्र्याह सुप्रभो ! जज्ञे कृतज्ञत्वं तवेयता । कार्य एव पुनर्दण्डः पुत्ररत्नापहस्य मे ।।५४६।। एकमामलकं तर्हि वलितं त्रयमध्यतः । इत्युक्ते भूभुजा मन्त्री जगौ प्रीतिसगद्गदम् ।।५४७॥ देव ! सर्वगुणाधार ! जगतीमौलिमण्डन !। यद्येवं ते कृतज्ञत्वं तदास्त्वामलकत्रयी ॥५४८॥ चिरं कुरु कुमारेण सहितो राज्यमक्षतम् । इत्युक्त्वाऽनाययत् तत्र पुत्रं प्रेष्य निजान् नरान् ५४९॥ भूषिताङ्गं स्मितमुखं ललमानं तथैव तम् । सुतं दृष्ट्वा नृपो हर्ष विस्मयं च परं ययौ ।।५५०|| किमेतदिति राज्ञोक्ते मन्त्री लोकसमक्षतः । वृत्तान्तं पितुरादेशादारभ्याऽखिलमाख्यत ॥५५१।। तन्निशम्य भृशं राजा लज्जितः सत्स्वभावतः । मन्त्रिणं च करे कृत्वा सप्रणयमिवाब्रवीत् ।।५५२॥ अमूल्यामलकं यत् ते पुत्रतुल्यं कृतं मया ।। मर्षणीयोऽपराधो यत् त्वया मित्र ! महानिति ॥५५३॥ इत्यसौ लब्धसुस्वामि-सुकलत्र-सुमित्रजम् । अन्वभूत् सुखमैकात्म्यमापन्नो भूभुजा सह ।।५५४।। तो भूप-सचिवौ राज्यं भुक्त्वा सत्सङ्गतत्परौ । सद्गुरोधर्ममासाद्य हितोयुक्तौ बभूवतुः ॥५५५।। सुसंसर्गस्य माहात्म्यं व्यवहारेण कीर्तितम् । सर्वार्थसिद्धिकृत् सत्त्वविषयं वर्ण्यतेऽधुना ॥५५६।। सत्वमेव नृणां तत्त्वं सत्त्वं सिद्ध्यै भवद्वये । . विना सत्त्वं सजीवोऽपि निर्जीव इति कथ्यते ॥५५७॥ विशीर्णोऽपि यथा वृक्षः सति मूले प्ररोहति । १ पुत्ररत्नमपहन्तीति पुत्ररत्नापहस्तस्य ।