________________
१९६
श्रीपार्श्वनाथचरितकरोमि प्राप्तकालीनं ध्यात्वैवं धीरमानसा ॥५३२।। गत्वाऽसौ भर्तृमित्रस्य वसन्तस्य तदाख्यत । सोऽपि भाव्यमिदं नूनं ध्यात्वैवं धीरमब्रवीत् ॥५३३।। अये सुन्दरि ! मा भैषी वितेन धनेन च । विपदं निजमित्रस्य रक्षाम्येव न संशयः ।।५३४॥ जातीपुष्पसमस्याऽस्य जीवितस्य धनस्य च । मित्रार्थे यदि नाशः स्यात् किं न प्राप्तं फलं तदा?॥५३५॥ इत्युक्त्वा स ययौ राजकुलं नत्वा नरेश्वरम् । कृताञ्जलिर्वसन्ताख्यः सावष्टम्भं व्यजिज्ञपत् ॥५३६॥ विकल्पं देव ! मा कास्त्वित्पुत्रनिधने खलु । अहं हेतुरतो वित्तं जीवितं च गृहाण मे ।।५३७।। निशम्येदं नृपो यावदास्ते संशयितो हृदि । मन्त्रिपत्री समागत्य तावदेवं व्यजिज्ञपत् ॥५३८॥ वसन्तो मित्रदारार्थे देव ! विज्ञपयत्यदः । परं मदोहदस्यार्थे त्वत्पुत्रस्य वधोऽजनि ॥५३९ ॥ इति किंकृत्यतामूढो नृपः शून्य इवाभवत् । ततो मन्त्री समागत्य कम्पमान इवावदत् ॥ ५४० ॥ मदीयपीडया देव ! मित्र-पत्न्याविमे मम । . खं निवेदयतो नूनमपराधोऽत्र नैतयोः ॥ ५४१ ॥ आसन्नविपदा किन्तु जातदुर्मतिना मया । कुमारो निहतो नाथ ! योग्यं दण्डं कुरुष्व मे ॥ ५४२ ॥ अग्रेऽपि मन्त्रिशङ्काऽऽसीत् तत्रार्थे भूभुजो हृदि । तनिशम्य पुनर्बाढं प्रत्ययोऽजनि निश्चलः ॥ ५४३ ॥ ततः स्पष्टमुखो वीक्ष्य मन्त्रिणं नृपतिर्जगौ । येन मे जीवितं दत्तं को दण्डस्तस्य युज्यते ? ॥५४४।। मित्र ! त्वं यदि नादास्यस्तदा धात्रीफलानि मे । १ आमलकानि।