SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०५ तृतीयः सर्गः। देवं शक्रावतारस्थमर्चित्वा याम धामनि ॥ ६४७ ॥ (युग्मम् ) एवं कृत्वा च पाश्चात्यागतसैन्येन संयुतः । हरिश्चन्द्रनपोऽयोध्यां प्रविवेश दिनात्यये ॥ ६४८ ॥ अथ राज्यमहास्तम्भः सर्वनीतिविशारदः । मन्त्री मित्रं च तस्यासीद् वसुभूतिर्महीपतेः ॥६४९।। कुन्तलाद् ज्ञातवृत्तान्तः स दध्यौ हृदि हा! कथम् । अपर्यालोचयन्तोऽर्थ राजानः स्वोपघातकाः ? ॥६५०॥ ददता वसुधां तस्मै तापसाय दुरात्मने । देशाद् देशप्रवासो हि स्वीकृतो भूभुजा स्वयम् ॥६५१॥ यदन्येनाऽदृष्टचरो वराहं कोऽप्यवेदयत् । भूभुजे तद् ध्रुवं किञ्चिद् दिव्यमेतद् विजृम्भितम् ॥६५२॥ अविमृष्टायतिर्भूपः क्षीयते न्यायवानपि । अत एव विमृष्टारः सन्निधेयाः सुमन्त्रिणः ॥६५३॥ किं कुर्मो दुर्धियः कुर्युर्यत् किश्चन महीभुजः । तत्तत्प्रतिक्रियाव्यग्रैः क्लिश्यते सचिवैः पुनः ॥६५४।। विमृश्यैवं तदामात्यः सशस्य इव निःश्वसन् । विलासमण्डपेऽहाय सचिन्तो नृपतिं ययौ ॥ ६५५ ॥ नत्वोपविष्टे तस्मिंश्च मन्त्रिणि प्राह भूपतिः । वराहाऽऽवेदकस्याग्रे प्रतिज्ञातमकृष्महि ॥ ६५६ ॥ मन्त्र्याह देव ! तत् सर्व वृत्तान्तं ज्ञातवानहम् । राज्ञोचे सस्मितं तर्हि कुन्तलस्तद् न्यवेदयत् ।।६५७।। मन्त्री प्राह विभो ! कस्य प्रभुत्वं न मुदे भुवि । अनौचित्यमपि स्तौति यत्रौचित्यमिवाऽनुगः ॥६५८१॥ किन्तु विज्ञपयिष्यामि कर्णयोः कटु किश्चन । नाथाऽयं वसुधात्यागो नहि मे प्रतिभासते ।। ६५९ ॥ राज्ञोचे सत्यं किन्त्वेतत् युक्तं नो युक्तमेव वा ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy