________________
प्रथमः सर्गः ।
वचः सत्यं गुरौ भक्तिः शक्त्या दानं दयाऽर्दिते । धर्मोऽयमिष्टसंयोगकरोऽनिष्टनिवारकः ॥ १४७ ॥ अधर्मः पुनरेतस्माद् विपरीतोऽथ सोऽवदत् । नैवम्, समय एवात्र कारणं संपदापदोः ॥ १४८ ॥ दिवा बलक्षये सूरोऽप्यस्तमेति गलद्युतिः । निशाबलवशात् क्षुद्रा अपि ताराः स्फुरन्त्यमूः ॥ १४९ ॥ समयस्य बले नृणामधर्मोऽपि सुखावहः । पुनस्तस्य बलाsभावे न धर्मोऽपि सुखावहः ॥ १५० ॥ यदिदानीं तवावस्था धर्मिणोऽपीदृशी ततः । अधर्मसमयोऽयं तद् धनं चौर्यादिनाऽर्जय ॥ १५१ ॥ कुमारोऽप्याह रे ! पापिन् ! न श्रोतव्यमिदं वचः । मा वादीः सर्वदा येन धर्मादेव जयो ध्रुवम् ।। १५२ ।। यस्तु कोऽप्यजयस्तत्राऽन्तरायं कर्म कारणम् । शर्करामश्नतां दन्तव्यथायै किं न कर्करः १ ॥ १५३ ॥ अन्यायेन तु या लक्ष्मीः स उद्योतः प्रदीपनात् । क्षणं प्रकाश्य वस्तूनि निर्वाह केवलं रजः ॥ १५४ ॥ अरण्यरुदितैः किं वा पुरो ग्रामे जरन्नराः ? | जयं वक्ष्यन्ति चेद् धर्मात् तदा त्वं किं करिष्यसि १ ॥ १५५ ॥ तेनोचे भृत्यभावं ते करिष्ये जीवितावधि |
१३
पणबन्धं कुमारोऽपि तमेव प्रतिपन्नवान् ॥ १५६ ॥ तावेवं कृतमर्यादौ वेगाद् ग्रामं गतौ ततः । परिषत्स्थानुपागत्य भृत्यः प्रणतिपूर्वकम् ।। १५७ ॥ वृद्धान् प्रपच्छ यदहो ! संदेहश्चिरमावयोः । जयो धर्मादधर्माद् वा सम्यग् निर्णीय कथ्यताम् १ ॥ १५८ ॥
( युग्मम् )
तैस्तु दैवादसंभाव्यनवीनप्रश्नविस्मितैः । रभसादिदमाचख्ये यदधर्माद् जयोऽधुना ॥
१ समाप्तौ ।
१५९ ॥