________________
श्री पार्श्वनाथचरिते
ततः पुनः पुरो यान्तं कुमारं सज्जनोऽवदत् । सोपहासं यथा देव! सत्यैकधनधार्मिक ! ॥ १६० ॥ मुञ्चेमं तुरगं शीघ्रं भृत्यभावं कुरुष्व मे । तेनोचे वचनं मे स्यात् प्रलयेऽपि किमन्यथा ।। १६१ ॥ गृहाण तुरगं भृत्य ! पृष्ठचारी सदाऽस्मि ते । सर्व यातु ममासारं सारं सत्यं तु तिष्ठतु ।। १६२ ॥ सोऽश्वारूढो व्रजन् वेगात् सहर्षमवलोकते । कुमारमनुधावन्तं श्रमस्वेदमलाविलम् ॥ १६३ ॥ raat त्वया धर्मपक्षपातभवं फलम् । कुमार ! ददृशे साक्षात् तदथाऽपि तदाग्रहम् ॥ १६४ ॥ मुञ्च वञ्चय भोः ! लोकं बधबन्धादिके कृपाम् । मा कार्षीर्जीवनोपायः कोऽपि नान्यस्तवाऽधुना ॥ १६५ ॥ ( युग्मम् ) कुमारोऽवोचदाः ! पाप ! वृथा ते सज्जनाभिधा । मधुराख्या विषस्येव त्वत्समो यन्न दुर्जनः ॥ १६६ ॥ किंचैवं दुर्मतिं यच्छन् व्याधादप्यधिकोऽभवः । अतिनिन्द्योऽहि पापस्य कारकादुपदेशकः ॥ १६७ ॥ यथा कोsपि वने व्याध ! कर्णान्ताऽकृष्टकार्मुकः । घाताग्रगतया मृग्या सदैन्यमिदमर्थितः ।। १६८ ॥ प्रतीक्षस्व क्षणं व्याधः बाध्यमानानि मे अवतिष्ठन्तेऽपत्यानि मदीयागमनाऽऽशया ॥ १६९ ॥ स्तन्यपानमहं तानि कारयित्वा तवान्तिकम् ।
क्षुधा ।
यावदायामि तेनोचे नैषि चेत् तव किं ततः १ ।। १७० ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनाऽऽगमः ।
महान्ति पातकान्याहुस्तत्संसर्गश्च पञ्चमम् ॥ १७१ ॥ ब्रह्महत्यादिपञ्चाऽतिपातकाङ्गीकृतावपि ।
१ न एपि आगच्छसि ।
१४