SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३२२ श्रीपार्श्वनाथचरितेनिशम्य स्वीकृतो धर्मो धन्यमन्येन भानुना ॥६१६॥ नीतश्च स मुनिर्देव्याः पार्थे साऽपि तमार्जवात् । वन्दित्वा देशनां श्रुत्वा गृहिधर्म समाश्रयत् ॥६१७॥ गतपापा च सज्जा च सा जज्ञे मुनिदर्शनात् । मणि-मन्त्र-महौषध्यो यथा तुर्यस्तथा मुनिः। ॥ ६१८॥ चिरं राज्यसुखं भुक्त्वा वयःपरिणतावुभौ । राज्ये निजाङ्गजं न्यस्य पार्थे प्रावजतां गुरोः ॥६१९॥ सरस्वती स्थिता साध्वी समीपे विशदव्रता । भानुस्तु विहरत्येकः स चाऽहं नन्विहागतः ॥६२०!! अतो यदि तदा स्वस्याऽकरिष्यं हननं ततः । ऐहिकाऽऽमुष्मिकश्रेयोऽभविष्यदिति मे कुतः ? ॥६२१॥ सत्यमेतद् वचो जज्ञे जीवन् भद्राणि पश्यति । तद् भद्र ! कुरु सद्धर्म विरमाऽज्ञानमृत्युतः ॥६२२॥ तन्निशम्याऽवदचन्द्रः सत्यमेतद् मुने ! परम् । वित्त-मित्रवियोगाा बाढमस्म्यनवस्थितः ॥ ६२३ ॥ प्रसीद तत् तथा नाथ ! यथा स्यां स्वच्छमानसः । पश्चाच्च भवदादिष्टे यतिष्ये धर्मकर्मणि ॥ ६२४ ॥ प्राह भानुमुनिस्तर्हि शिक्षयख तदेकधीः । परमेष्ठिनमस्कारं यः सद्यः सर्वकामदः ॥ ६२५ ॥ लघिष्ठोऽपि यथा हन्ति द्रुतं पश्चाननो गजान् । तथा पञ्चनमस्कारो इस्खोऽपि दुरितापहः ।। ६२६ ॥ प्राप्य पश्चनमस्कारं चिन्तामणिसमं जडाः । उपलावज्ञया पश्यन्त्यन्ये ध्यायन्ति यत्नतः ॥ ६२७ ॥ तथाहिदेशकालानुमानेन वर्तनं कलिवर्जनम् ।। यथालब्धे च सन्तोषो महासुखमिदं नृणाम् ॥ ६२८ ॥ अतिलौल्यात् पुनर्लब्धमप्यर्थ हारयेत् कुधीः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy