________________
... षष्ठः सर्गः ।
३२१ पप्रच्छ लब्धचैतन्यां कन्यां किं पुत्रि ! तेऽभवत् । कथितं च तया मेऽप्तौ भर्ताऽऽसीत् पूर्वजन्मनि ॥६०३॥ इत्यादिबहुभिस्तस्याः प्रत्ययैः सहितां गिरम् । श्रुत्वा तोषं गतो मन्त्री राज्ञा कन्यां विवाहितः ॥६०४॥ लब्धाऽऽवासस्थितिस्तत्र स भानुसचिवः सुखम् । भुञ्जानोऽगम यत् कालं नरेन्द्रसुतया सह ॥६०५॥ साऽप्यहो ! मत्कृते सोढं कियद् दुःखं महात्मना । इति बुद्ध्या परं तत्र प्रतिबन्धपराऽभवत् ॥६०६॥ : अन्यदा नृपतिर्भानौ राज्यं न्यस्य विरागतः। . प्रव्रज्यां जगृहे भानू राजा पालयति प्रजाम् ।।६०७॥ अथ दाहज्वरस्तीवो देव्या आकस्मिकोऽजनि । चिकित्सा विविधाऽऽरेभे परं व्यर्थाऽखिलाऽभवत् ॥६०८॥ मुक्तबाणेषु वैद्येषु दध्यौ विध्यातधीनृपः। यावषा विपद्येत तावत् प्राणांस्त्यजाम्यहम् ॥६०९॥ मा भूद् विडम्बना प्राग्वदिति निश्चित्य सप्तमम् । प्रासादतलमारुह्य स्खमुल्लम्बितुमुद्यतः ॥६१०॥ तदा व्योम्नि वजन् दृष्टा तं चारणमुनि गौ । किं करोषि महाभाग ! स्ववधं बालिशोचितम् १ ॥६११॥ मृतस्याऽविधिना दुःखं पुरोऽधिकतरं भवेत् । दुष्कर्माण्येव वध्यानि वृथा देहवधेन किम् ? ॥६१२।। ऊचे भानुनृपः स्वामिन् ! किं कर्तव्यं मयाऽधुना ? । मुनिराह परं धर्म सर्वदुःखापहं कुरु ॥६१३।। जिनं देवं प्रपद्यस्व महाव्रतधरं गुरुम् । सर्वज्ञाऽभिहितं तत्वं सम्यक्त्वमिदमाश्रय ॥ ६१४ ॥ कल्पवृक्षस्तथा कामधेनुश्चिन्तामणिस्तथा । त्रिपदीयं समस्या हि पूर्णा स्याजिनधर्मतः ॥६१५॥ विरम प्राणिघातादिपापादित्यादिदेशनाम् ।