SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३२० श्रीपार्श्वनाथचरितेनृपोऽवोचदहं किञ्चिद् याचितुं त्वामिहागमम् । मन्त्री प्राह किमत्राऽर्थे कथ्यं यत् कृत्यमादिश ।। ५९१॥ ततश्चरणयोर्भानोलगित्वा नृपति गौ । वृत्तान्तेनामुनाऽमात्य ! विपन्ना सा तव प्रिया ।। ५९२ ॥ तदभ्यर्थनयाऽस्माकं न कार्याऽनुमृतिस्त्वया । हा ! किमेतदिति क्षुब्धचित्तेनाऽभाणि मन्त्रिणा ॥ ५९३ ॥ त्वदुक्तं सिद्धमेवेदं सत्त्वहीनस्य मे विभोः । दुःश्रव्यमप्यदः श्रुत्वा हृदयं न द्विधाऽभवत् ॥ ५९४ ।। किन्तु देवेन नो किश्चिद् वाच्यं दारपरिग्रहे । अन्यच्च करवै तस्यास्तत्र गत्वीयदेहिकम् ।। ५९५ ।। इति मुक्तो नृपेणाऽसौ गत्वा स्वनगरं गृहे । स्वजनैः संगृहीतानि प्रियास्थोनि सदार्चति ॥ ५९६ ॥ स्मारं स्मारं गुणांस्तस्या रोदिति प्रलपत्यति । नृपवाक्यनिबद्धत्वाद् मुमूषुरपि जीवति ५९७ अन्यदाचिन्तयद् यावज्जीवन स्मि विधवंशात् । तावद् गत्वैतदङ्गानि काऽपि तीर्थे क्षिपाम्यहम् ।। ५९८ ॥ इत्यनाख्याय भूपस्य मन्त्री गङ्गातटं गतः। तत्र दत्त्वार्थिनां दानमिति प्रलपति स्म सः ।।५९९।। प्रियास्थिभिरपीदानीं भाव्यहो ! विरहो मम । विराधित इव स्तोकमपि नो सुखद् विधिः ॥६००॥ अथ क्रीडागता वाराणसीश्वरनृपाङ्गजा। नाम्ना सरस्वती तत्र प्रलपन्तं तमाशृणोत् ॥६०१॥ पृष्टश्च स तया दुःखकारणं सर्वमाख्यत । तत् श्रुत्वा प्राग्भवं स्मृत्वा मूर्छिता साऽपतद् भुवि ॥६०२॥ ततो भीताभिरारब्धाः सखीभिर्विविधाः क्रियाः। . ज्ञात्वा राजाऽपि संभ्रान्तस्तत्रागात् सपरिच्छदः ॥६०३॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy