________________
प्रथमः सर्गः ।
तेजोमयोsपि पूज्योsपि घातिना नीचधातुना | लोहेन सङ्गतो वह्निः सहते घनताडनम् ।। ३०१ ॥ वदने समतां विभ्रत् पश्चाच्च विषमुल्वणम् । दूरं वृश्चिकवत् त्याज्यः क्षुद्रात्मा दुर्जनो जनः ॥ ३०२ ॥ स्तोकमप्युद्गमं प्राप्य न्यग्रोधाङ्कुरवत् खलः ।
प्रसरन् पाटयन् सन्धि प्रासादं पातयेद् नृपम् ||३०३ || स्नेहे नाशं गुणे दाहं वितनोत्यमले मलम् । दीपज्वालोपमा देव ! खले मैत्री नृणां खलु ॥ ३०४ ॥ श्रूयते नीतिशास्त्रेषु हदोचारोपकारिणः ।
3
हंसस्य यदभूद् नीचकाक संसर्गदोषतः ॥ ३०५ ॥ यथा कोऽपि सरस्याssतिस्पर्धया मूर्खवायसः । पतितोऽन्तर्जलं मीनजिघृक्षुर्व्याममण्डलात् ॥ ३०६ ॥ स तरीतुमजानानः सलिलप्लुतपक्षतिः । सेवालैर्वेष्टितोऽत्यन्तं जातो मृत्युभयाssकुलः ॥ ३०७ ॥ तं दृष्ट्वा कृपया हंसी तीरगा हंसमब्रवीत् । प्रिय ! पश्य कथं काको वराको म्रियते पुरः १ ॥ ३०८ ॥ विश्वपक्षिगणेषु त्वमुत्तमो मीयसे जनैः । तदस्य दीयतां जीवदानमुत्तार्य नीरतः ॥ ३०९ ॥ साधु साध्विति भाषित्वा हंसो हंसी च वायसम् । चञ्चत्राssदाय तृणं तत्र विलग्नं निन्यतुर्बहिः ॥ ३१० ॥ क्षणादाऽऽश्वास्य काकोऽथ वातेनोद्वानपक्षतिः । विलग्य पादयोर्वाढमिति हंसं न्यमन्त्रयत् ।। ३११ || कोsपि प्रत्युपकारस्ते नैव निष्पद्यते मया । तथाऽपि कुरु मे तोषं समागम्याऽद्य मद्दनम् ॥ ३१२ ॥ हंसेनाsपि तदाssकर्ण्य प्रियाया वीक्षितं मुखम् ।
१ दवरके अपि ।
३ पक्षिविशेषः । ४ पक्षमूलम् ।
४
२५
२ कज्जलमपि ।