________________
श्रीपार्श्वनाथचरितेतथैव विहिते तेन विदित्वा तन्नृपोऽपि हि । स्पष्टकोपो बलाटोपं कृत्वा सज्जो युधेऽभवत् ॥३६५।। प्रसरत्तरलोत्तुङ्गतरङ्गाभतुरङ्गमे । दृश्यमानमहामानमत्तमातङ्गपर्वते ॥ ३६६ ॥ करालमकराकारवरूथिरथसंकुले । स्फुरचारभटाऽनेकनक्रचऋभयङ्करे ॥ ३६७ ॥ डिण्डीरपिण्डसंकाशच्छत्रशङ्खविराजिते । . महाकलकलवानपूरितव्योममण्डले ।। ३६८ ॥ दुर्वाताभितोत्तालपूर्वापरसमुद्रवत् । प्राणिक्षयाय सञ्जाते संग्रामे सैन्ययोर्द्वयोः ॥ ३६९ ॥ मन्त्रिभिश्चिन्तितं हन्त ! सत्स्वप्यऽस्मासु यद्यसौ।' राज्ञा संहार आरेभे ततो जीवन्मृता वयम् ॥ ३७० ॥
(पञ्चभिः कुलकम् ) पुष्पैरपि न योद्धव्यं प्रबुद्धेन यथा तथा । अयं ह्यवसरोऽस्माकं तनिवारणकर्मणि ॥ ३७१ ॥ सर्वे समुदितीभूय पश्चात्कृत्य बलद्वयम् । उपाऽसर्पन नृपं नत्वा तेष्वेक इदमूचिवान् ॥ ३७२ ॥ कलानामिव शीतांशुनंदीनामिव सागरः। निधिस्त्वमेको विद्यानां देव ! संपति भूतले ॥ ३७३ ।। यथा च नृषु राजा त्वं विवेकश्च गुणेष्वयम् । अविमर्शो महानेष दोषो दोषेष्वयं तथा ॥३७४॥ शल्य वह्नि-विषादीनां सुकरैव प्रतिक्रिया । सहसाकृतकार्योत्थाऽनुतापस्य तु नौषधम् ॥३७५॥ गुरुत्वं च लघुत्वं श्रीभावाऽभावती जडाः । वदन्ति तत्पुनर्दक्षाः सद्विवेकाविवेकतः॥ ३७६ ॥ निर्विवेकनरं नारी प्रायोऽन्याऽपि न कासति । किं पुनः श्रीरियं देवी पुरुषोत्तमवल्लभा ? ॥३७७॥